This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः
 
शमधनानां निरन्तरावासनिर्वेदादिव भोगिनमेव कमपि भुवनतला-
कल्पमास्तीर्य तल्पमधिशयानम्, अतिशयानम्रमौळिभिर्महायोगि-
भिः प्रणामावसरप्रकीर्यमाणेषु कुसुमोपहारेषु सौकुमार्यातिशयसंसक्तैः
कतिपयैरिव कल्पतरुप्रसूनैश्चिरनिर्गतसिद्धसिन्धुशीकरशेषैरिव ततस्ततो

लग्नैर्नखरैर्निरर्गळापवर्गदान संसूचनाय नियन्त्रितेनेव ध्वजेन संसा-
रकान्तारसञ्चरणखिन्नशारीरकच्छायाप्रदानाय समावर्जितेनेव छत्रेण
 

 

 
[commentary]
 
भास्करः । शरीरमुद्दिश्य प्रवृत्तानि शारीराणि, तानि यानि कर्माणि कषायकल्कौ-
घाधादिलक्षणानि तेषां सम्प्रदायस्सदाचार:रः तस्य प्रवर्तकं प्रदर्शकम् । चिकि-
त्साशास्त्रप्रणेतारमिति भावः । उक्तार्थे अभियुक्तवचनम् -- 'योगेन चित्तस्य पदेन
वाचां मलं शरीरस्य तु वैद्यकेन । योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं
प्राञ्जलिरानतोऽस्मि ॥' इति । भोग:गः वैषयिकसुखम् । यद्वा, भुज्यन्त इति
व्युत्पत्त्या भोगाः विषयाः, तस्मिन् तेषु वा विमुखेषु पराङ्मुखेषु, निष्कामत्वादिति
भावः । शमघनानां मुनीनां हृदयेषु अन्तःकरणेषु निरन्तरनिवासः सन्ततस्थितिः
तेन यो निर्वेदो व्याकुलत्वं तस्मादिव भुवनतलस्य पाताळलोकस्य आकल्प-
मलङ्कारभूतं एकं भोगिनं फणिनमेव सुखिनं च । श्लिष्टरूपकमेतत् । तल्पं शय्याम्
आस्तीर्य परिस्तीर्य । अत्र शेषलक्षणतल्पास्तरणे भगवतो निर्वेदो न हेतुः तस्मिन्
सोऽप्यसिद्ध एव, तथापि तस्य तल्पास्तरणहेतुत्वोक्तेः हेतूत्प्रेक्षालङ्कारः । लक्षणं तु

'अहेतोर्हेतुभावेन कथनं हेतूत्प्रेक्षा' इति । अधिशयानं निद्राणमित्यर्थः । अतिशयेन
आधिक्येन अत्यन्तमित्यर्थः । नम्राः विभुना:ग्नाः मौळय:यः शिरांसि येषां ते तथाभूतैः
प्रणतैरिति भावः । महान्तो ये योगिनः तैः कुसुमान्येव उपहारा:राः उपायनानि
तेषु । प्रणामावसराः प्रणतिसमयाः तत्र प्रकीर्यमाणेषु प्रक्षिप्तेषु सत्सु । 'अर्चनानन्तरं
भक्तचात्या प्रकीर्यं सुमसञ्चयम् । प्रदक्षिणनमस्कारौ कृत्वा स्तोत्रं पठेद्बुधः ॥ '
इति शास्त्रादिति भाव:वः । सौकुमार्यातिशयेन मृदुत्वातिशयेन संसक्तैः
सङ्क्रान्तैः कतिपयैः कल्पतरो:रोः प्रसूनैः पुष्पैरिव स्थितैः ततस्ततः तत्र
तत्रेत्यर्थः । लभैःग्नैः संसक्तैः चिरनिर्गता या सिद्धसिन्धुर्मन्दाकिनी, तस्याश्शी-
कराः अम्बुकणाः, तेषां शेषैरिव स्थितैः । नखरैर्नखैः । निरर्गळं निर्निरोधं
यथा तथा अपवर्गस्य मोक्षस्य दानं वितरणं तस्य संसूचनाय ज्ञापनाय
नियन्त्रितेन प्रोत्क्षिप्य निबद्धेनेत्यर्थः । ध्वजेन रेखाकारेण केतुना । संसार
 
2