This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
सनिःश्वासपरम्परासम्पादितभोगोपचयापचयतया सन्ततमुपपादयन्त -
मिव विलक्षणामूर्ध्वडोलाविहारनिर्वृतिम्, आचार्यं योगविदाम्, आदि-
देशिकं पदतन्त्रस्य, सम्प्रदायप्रवर्तकं शारीरकर्मणाम्, भोगविमुखेषु हृदयेषु
 
"
 
श्रुतिः । आकाशव्यापकत्वविलक्षणं भगवद्व्यापकत्वं एवंविंध तथाविघमिति च
वक्तुं न शक्यमिति भावः । अचक्षुर्ग्राह्यं चक्षुषा ग्रहीतुमशक्यमित्यर्थः । 'न
चक्षुषा पश्यति कश्चनैनम् इति श्रुतेः । तस्य साक्षिचेतनत्वादिति भावः ।
अनुसृत्य श्रूयन्ते अनुश्रवा वेदाः तैरेव श्रवणीय वेदैकवेद्यत्वात्तस्येति भावः ।
'तं त्वौपनिषदं पुरुषम्' इति श्रुतेः । भगवतो वासुदेवस्य रूपं स्वरूपं अधिगन्तुं
द्रष्टुं श्रोतुमिव चक्षूंषि श्रवांसि यस्य तथाभूतस्येत्यर्थ: । 'चक्षुःश्रवाः काकोदरः
फणी' इत्यमरः । तनुं शरीरम् आसाद्य प्राप्य सहस्राभ्यां द्विसहस्रसङ्ख्याकैः अक्षि-
भिर्नेलैः, आगमानां वेदानां आशयमभिमतार्थं वासुदेवं परमाद्भुतं यथा तथा
अनुभवन्तं विदन्तमिव स्थितम् । 'आश्चर्यवत्पश्यति कश्चिदेनम्' इति
स्मृतेः । अतिक्रान्ताः वेलामतिवेलाः निर्मर्यादा इत्यर्थ: । 'अत्यादयः क्रान्ताद्यर्थे
द्वितीया इति समासः । 'अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि '
इत्यमरः । तथाविघा ये श्वासनिःश्वासाः बाह्यस्य वायोराचमनं श्वासः, कुक्षि -
स्थवायोरुद्वमनं निःश्वासः, तेषां परम्परा अविच्छेदः, तेन सम्पादितौ उत्पादितौ
भोगोपचयापचयौ शरीरवृद्धिासौ यस्य तस्य भावः तत्ता तथा । 'भोगस्सुखे
स्त्र्यादिभृतावहेश्च फणकाययोः' इत्यमरः । विभिन्नं लक्षणं स्वरूपं यस्यास्तां
विजातीयामित्यर्थः । ऊर्ध्वडोलाविहारः ऊर्ध्वाधोडोलया विहरणं, तेन या
निर्वृतिस्सुखं तां सन्ततमुपपादयन्तं निरूपयन्तमिव स्थितम् । योगविदां यमादि-
वेत्तॄणां आचार्य गुरुम् आचार्यलक्षणं मनुनोक्तम् – 'उपनीय तु यश्शिष्यं वेदम-
ध्यापयेद्दिजः । सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ॥" इति । अन्यत्रापि
'आचिनोति हि शास्त्रार्थानाचारे स्थापयत्यपि । स्वयमाचरते यस्मादाचार्यस्तेन क
थ्यते ॥" इति । भगवानापस्तम्बोऽपि 'यस्माद्धर्मानाचिनोति स आचार्यः' इति ।
'मन्त्रव्याख्याकृदाचार्यः' इत्यमरश्च । योगशास्त्र प्रणेतृत्वात्तस्याचार्यत्वमिति भावः ।
पद्यन्ते ज्ञायन्ते शब्दा अनेनेति पदं व्याकरणभाष्यं तत्संज्ञकं यत्तन्त्रं सिद्धान्तः,
व्याकरणसिद्धान्त इति यावत् । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । तस्य
आदिदेशिकं पदतन्त्रस्य, सम्प्रदायप्रवर्तकं शारीरकर्मणाम्, भोगविमुखेषु हृदयेषु
 
[commentary]
 
श्रुतिः । आकाशव्यापकत्वविलक्षणं भगवद्व्यापकत्वं एवंविधं तथाविधमिति च वक्तुं न शक्यमिति भावः । अचक्षुर्ग्राह्यं चक्षुषा ग्रहीतुमशक्यमित्यर्थः । 'न चक्षुषा पश्यति कश्चनैनम्’ इति श्रुतेः । तस्य साक्षिचेतनत्वादिति भावः । अनुसृत्य श्रूयन्ते अनुश्रवा वेदाः तैरेव श्रवणीयं वेदैकवेद्यत्वात्तस्येति भावः । 'तं त्वौपनिषदं पुरुषम्' इति श्रुतेः । भगवतो वासुदेवस्य रूपं स्वरूपं अधिगन्तुं द्रष्टुं श्रोतुमिव चक्षूंषि श्रवांसि यस्य तथाभूतस्येत्यर्थः । 'चक्षुःश्रवाः काकोदरः फणी' इत्यमरः । तनुं शरीरम् आसाद्य प्राप्य सहस्राभ्यां द्विसहस्रसङ्ख्याकैः अक्षिभिर्नेत्रैः, आगमानां वेदानां आशयमभिमतार्थं वासुदेवं परमाद्भुतं यथा तथा अनुभवन्तं विदन्तमिव स्थितम् । 'आश्चर्यवत्पश्यति कश्चिदेनम्' इति स्मृतेः । अतिक्रान्ताः वेलामतिवेलाः निर्मर्यादा इत्यर्थः । 'अत्यादयः क्रान्ताद्यर्थे द्वितीया’ इति समासः । 'अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि' इत्यमरः । तथाविधा ये श्वासनिःश्वासाः बाह्यस्य वायोराचमनं श्वासः, कुक्षिस्थवायोरुद्वमनं निःश्वासः, तेषां परम्परा अविच्छेदः, तेन सम्पादितौ उत्पादितौ भोगोपचयापचयौ शरीरवृद्धिह्रासौ यस्य तस्य भावः तत्ता तया । 'भोगस्सुखे स्त्र्यादिभृतावहेश्च फणकाययोः' इत्यमरः । विभिन्नं लक्षणं स्वरूपं यस्यास्तां विजातीयामित्यर्थः । ऊर्ध्वडोलाविहारः ऊर्ध्वाधोडोलया विहरणं, तेन या निर्वृतिस्सुखं तां सन्ततमुपपादयन्तं निरूपयन्तमिव स्थितम् । योगविदां यमादिवेत्तॄणां आचार्यं गुरुम् आचार्यलक्षणं मनुनोक्तम् -- 'उपनीय तु यश्शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥" इति । अन्यत्रापि 'आचिनोति हि शास्त्रार्थानाचारे स्थापयत्यपि । स्वयमाचरते यस्मादाचार्यस्तेन कथ्यते ॥" इति । भगवानापस्तम्बोऽपि 'यस्माद्धर्मानाचिनोति स आचार्यः' इति । 'मन्त्रव्याख्याकृदाचार्यः' इत्यमरश्च । योगशास्त्रप्रणेतृत्वात्तस्याचार्यत्वमिति भावः । पद्यन्ते ज्ञायन्ते शब्दा अनेनेति पदं व्याकरणभाष्यं तत्संज्ञकं यत्तन्त्रं सिद्धान्तः, व्याकरणसिद्धान्त इति यावत् । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । तस्य आदिदेशिकं
प्रथमोपदेष्टारम् । 'देशे भवे दैशिक:कः स्यादुपदेष्टरि देशिक : ' इति
 
"
 
-
 
a
 
कः' इति