This page has been fully proofread twice.

इति प्रबोधितो विधिरीदृशतादृशताऽनवच्छिन्नवैभवमचक्षुर्ग्राह्यमनुश्रवैकवणीयमधिगन्तुमिव भगवतो रूपम् आसाद्य चक्षुःश्रवस्तनुमक्षिभिस्सहस्राभ्यामनुभवन्तमिव परमाद्भुतम्, आशयमागमानाम्, अतिवेलश्वा-
 
[commentary]
 
तत्कथमोङ्कारस्य भगवद्गुणज्ञानाद्याबद्धत्वमिति चेत् - 'प्रणवं पुरुषोत्तमम्' इति श्रुतिसिद्धाभेदादिति बोध्यम् । अन्तस्समीपे समन्तात् परितः । आत्मनि अध्यात्मम् । विभक्त्यर्थेऽव्ययीभावः । अध्यात्मविद्या ब्रह्मविद्या सैव भास्वतां प्रकाशमानानां रत्नदीपानां प्रकरस्समूहः तेन परिहृतं निरस्तं ध्वान्तमन्धकारं यस्मिन् तत्तथाभूतम् । ब्रह्मविद्यैव तमः परिहृत्य ओङ्कारस्थं वासुदेवं प्रकाशयितुं समर्थेति भावः । गाढा दुरुच्छेदा या अविद्या अज्ञानम् । 'अथाज्ञानमविद्याहंमतिः स्त्रियाम्' इत्यमरः ।
सैव कवाटं यस्य तत्तथा । अज्ञानकवाटपाटनमन्तरा तत्र प्रवेशो न सम्भवतीति भावः । प्रबलौ बलवन्तावप्रकम्प्याविति यावत् । यौ शमदमौ अन्तरिन्द्रियबहिरिन्द्रियनिग्रहलक्षणौ तावेव द्वारपालौ ताभ्यामभिगुप्तं रक्षितम् । ऊदित्त्वाद्वैकल्पिक इडभावः । येषां शमादयो वश्याः तानेव तत्र शमादयः प्रवेशयन्तीति भावः । शमादीनां द्वारपालत्वं वासिष्ठरामायणेऽप्युक्तम् 'मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः । शमो विचारस्सन्तोषश्चतुर्थस्साघुधुसङ्गमः ॥ एते सेव्याः प्रयत्नेन चत्वारो द्वौ त्रयोऽपि वा । द्वारमुद्धाघाटयन्त्येते मोक्षराजगृहे यथा ॥ एकं वा सर्वयत्नेन सर्वमुत्सृज्य संश्रयेत् । एकस्मिन् वशगे यान्ति चत्वारोऽपि वशं गताः' ॥ इति । भक्तिः आराध्यत्वेन ज्ञानम् । 'पूज्यानुरागो भक्तिः' इति
महोपाध्यायाः । द्वारं प्रतिहारः यस्य तत् तथाभूतम् । नारदीये 'यथा समस्तलोकानां जीवनं सलिलं स्मृतम् । तथा समस्तसिद्धीनां जीवनं भक्तिरिष्यते ॥ भक्तिर्द्वारमिति प्राहुर्मोक्षलक्ष्मीनिकेतने ।' इति । इह अत्र देशे ओङ्काररूपं प्रणवलक्षणम्, 'ओङ्कारप्रणवौ समौ' इत्यमरः । मुरारेर्नारायणस्य शयनागारं स्वापसदनं पश्य अवलोकय । 'उद्यमस्था सदा लक्ष्मीः' इतिवत् 'नित्यं यज्ञे प्रतिष्ठितम्' इतिवच्च ओङ्कारस्थः परेश्वर इत्यवगन्तव्यम् । शेषशायिनं वासुदेवं तल्पवर्णनपूर्वकं नखादिमकुटपर्यन्तं वर्णयति ॥ इतीति । इति इत्थं प्रबोधितः विनिवेदितः, तत्र भवैरिति शेषः । विधिः ब्रह्मा ईदृशतादृशते एवंविधतथाविधत्वे ताभ्यामनवच्छिन्नं अपरिज्ञातम् अविशिष्टमिति वा वैभवं विभुत्वं, व्यापकत्वमिति यावत्, यस्य तथाभूतम् । 'तत्सर्वं व्याप्य नारायणः स्थितः' इति