2023-06-05 16:40:08 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः
इति प्रबोधितो विधिरीदृशतादृशताऽनवच्छिन्नवैभवमचक्षुर्ग्राह्यमनुश्रवैक -
वणीय मधिगन्तुमिव भगवतो रूपम् आसाद्य चक्षुःश्रवस्तनुमक्षिभिस्सह-
साभ्यामनुभवन्तमिव परमाद्भुतम् आशयमागमानाम्, अतिवेलश्वा-
तत्कथमोङ्कारस्य भगवद्गुणज्ञानाद्याचद्धत्वमिति चेत् 'प्रणवं पुरुषोत्तमम्' इति श्रुति-
सिद्धाभेदादिति बोध्यम् । अन्तस्समीपे समन्तात् परितः । आत्मनि अध्यात्मम् ।
विभक्तघर्थेऽव्ययीभावः । अध्यात्मविद्या ब्रह्मविद्या सैव भास्वतां प्रकाशमानानां रत्न-
दीपानां प्रकरस्समूहः तेन परिहृतं निरस्तं ध्वान्तमन्धकारं यस्मिन् तत्तथाभूतम् ।
ब्रह्मविद्यैव तमः परिहृत्य ओकारस्थं वासुदेवं प्रकाशयितुं समर्थेति भावः । गाढा
दुरुच्छेदा या अविद्या अज्ञानम् । 'अथाज्ञानमविद्याहंमतिः स्त्रियाम् इत्यमरः ।
सैव कवाटं यस्य तत्तथा
अज्ञानकवाटपाटनमन्तरा तत्र प्रवेशो न सम्भवतीति
भाव: । प्रचलौ बलवन्तावप्रकम्प्याविति यावत् । यौ शमदमौ अन्तरिन्द्रिय-
हिरिन्द्रियनिग्रहलक्षणौ तावेव द्वारपालौ ताभ्यामभिगुप्तं रक्षितम् । ऊदित्त्वाद्वै-
कल्पिक इडभावः । येषां शमादयो वश्याः तानेव तत्र शमादयः प्रवेशयन्तीति
भावः । शमादीनां द्वारपालत्वं वासिष्ठरामायणेऽप्युक्तम् 'मोक्षद्वारे द्वारपाला-
श्चत्वारः परिकीर्तिताः । शमो विचारस्सन्तोषश्चतुर्थस्साघुसङ्गमः ॥ एते सेव्याः
प्रयत्नेन चत्वारो द्वौ त्रयोऽपि वा । द्वारमुद्धाटयन्त्येते मोक्षराजगृहे यथा ॥ एकं
वा सर्वयलेन सर्वमुत्सृज्य संश्रयेत् । एकस्मिन् वशगे यान्ति चत्वारोऽपि वश
गताः' ॥ इति । भक्तिः आराध्यत्वेन ज्ञानम् । 'पूज्यानुरागो भक्तिः' इति
महोपाध्यायाः । द्वारं प्रतिहारः यस्य तत् तथाभूतम् । नारदीये 'यथा
समस्तलोकानां जीवनं सलिलं स्मृतम् । तथा समस्तसिद्धीनां जीवनं भक्तिरिष्यते॥
भक्तिर्द्वारमिति प्राहुर्मोक्षलक्ष्मीनिकेतने ।' इति । इह अल देशे ओङ्काररूपं
प्रणवलक्षणम्, 'ओङ्कारप्रणवौ समौ' इत्यमरः । मुरारेर्नारायणस्य शयनागारं
स्वापसदनं पश्य अवलोकय । 'उद्यमस्था सदा लक्ष्मी: ' इतिवत् 'नित्यं यज्ञे
प्रतिष्ठितम्' इतिवच्च ओङ्कारस्थ: परेश्वर इत्यवगन्तव्यम् । शेषशायिनं वासुदेवं
तल्पवर्णनपूर्वकं नखः दिमकुटपर्यन्तं वर्णयति ॥ इतीति । इति इत्थं प्रबोधितः
विनिवेदितः, तत्र भवै,रति शेषः । विधि: ब्रह्मा ईदृशतादृशते एवंविधतथावि-
धत्वे ताभ्यामनवच्छिन्नं अपरिज्ञातम् अविशिष्टमिति वा वैभवं विभुत्वं,
व्यापकत्वमिति यावत्, यस्य तथाभूतम् । 'तत्सर्वं व्याप्य नारायणः स्थितः' इति
N – 21
,