2023-09-13 07:01:28 by Bharadwajraki
This page has been fully proofread twice.
येनोर्ध्वं पतता पुराणमुनयो नीताः पुरा मेनिरे
संसिद्धं सशरीरमूर्ध्वगमनं सद्यस्तपोभिर्दृढैः ॥ ३३ ॥
अस्य किलोपवीतमित्यायामतस्साम्यमवधारयन्तः पुरा निर्जरामौर्वीपदे मेरुधन्वनो वासुकिमादिशन्निति वदन्त्यैतिहासिकाः ।
पश्य ज्ञानक्रियेच्छामणिमयमुकुराबद्धमध्यात्मविद्या-
भास्वद्रत्नप्रदीपप्रकरपरिहृतध्वान्तमन्तस्समन्तात्
गाढाविद्याकवाटं प्रबलशमदमद्वारपालाभिगुप्तं
भक्तिद्वारं मुरारेरिदमिह शयनागारमोङ्काररूपम् ॥ ३४ ॥'
[commentary]
तस्य न्यासाटोपेन विन्याससंरम्भेण विभग्ना भङ्गं प्राप्ता अत एव चञ्चुविधृता त्रोटीविधृता या न्यग्रोधस्य वटस्य शाखा तां गताः प्राप्ताः पुराणाः ये मुनयः तैः दृढैस्संसारतारकैः तपोभिरुपासनादिभिः सद्यः उपासनावसरे सशरीरं शरीरेण सह वर्तनं यथा तथा । ऊर्ध्वगमनम् ऊर्ध्वलोकान् प्रति यानम् । संसिद्धं सम्प्राप्तमितीत्थं मेनिरे बुबुधिरे ॥ अस्येति ॥ पुरा पूर्वकल्पे निर्जरा देवाः वासुकिं तत्संज्ञं सर्पश्रेष्ठम् । अयमिति शेषः । आयामतः दैर्घ्यात् अस्य गरुडस्य उपवीतं किल यज्ञसूत्रमिव, वर्तत इति शेषः । इति एवंप्रकारम् । 'इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इत्यमरः । समयोस्सदृशयोर्भावस्साम्यं अवधारयन्तः निश्चिन्वन्तस्सन्तः मेरुधन्वनः मेरुरूपधनुष इत्यर्थः । 'धनुश्चापो धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । मौर्वी शिञ्जिनी तस्याः पदे स्थाने आदिशन्न्ययोजन् । उच्चारणार्थस्य 'दिश' धातोर्लङि रूपम् । इतीत्थं ऐतिहासिकाः भारतादीतिहासविदः, 'आख्यानाख्यायिकेतिहासपुराणेभ्यश्च' (वा. ४.२.६०) इत्यध्येतृवेदित्रर्थे ठक्प्रत्ययः । ओङ्कारस्वरूपं वासुदेवशयनागारं वर्णयति ॥ पश्येति ॥ ज्ञानक्रियेच्छाः ज्ञानशक्तिक्रियाशक्तीच्छाशक्तय एव मणिमया मणिविकाराः मुकुरा आदर्शाः तैराबद्धं सम्बद्धम् । यथा राजमन्दिरं भित्तिनिखातशङ्कुसङ्क्रान्तैर्दर्पणैर्विभाति तथेति भावः । ओङ्कारलक्षणं भगवत्सदनं ज्ञानशक्त्यादिभिः विभातीति भावः । ननु 'इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिरिति श्रुताः । विद्यन्ते शक्तयस्सर्वा वासुदेवे परात्मनि ॥’' इति वचनात् 'ज्ञानादिमत्त्वं भगवत इति विज्ञायते
संसिद्धं सशरीरमूर्ध्वगमनं सद्यस्तपोभिर्दृढैः ॥ ३३ ॥
अस्य किलोपवीतमित्यायामतस्साम्यमवधारयन्तः पुरा निर्जरामौर्वीपदे मेरुधन्वनो वासुकिमादिशन्निति वदन्त्यैतिहासिकाः ।
पश्य ज्ञानक्रियेच्छामणिमयमुकुराबद्धमध्यात्मविद्या-
भास्वद्रत्नप्रदीपप्रकरपरिहृतध्वान्तमन्तस्समन्तात्
गाढाविद्याकवाटं प्रबलशमदमद्वारपालाभिगुप्तं
भक्तिद्वारं मुरारेरिदमिह शयनागारमोङ्काररूपम् ॥ ३४ ॥'
[commentary]
तस्य न्यासाटोपेन विन्याससंरम्भेण विभग्ना भङ्गं प्राप्ता अत एव चञ्चुविधृता त्रोटीविधृता या न्यग्रोधस्य वटस्य शाखा तां गताः प्राप्ताः पुराणाः ये मुनयः तैः दृढैस्संसारतारकैः तपोभिरुपासनादिभिः सद्यः उपासनावसरे सशरीरं शरीरेण सह वर्तनं यथा तथा । ऊर्ध्वगमनम् ऊर्ध्वलोकान् प्रति यानम् । संसिद्धं सम्प्राप्तमितीत्थं मेनिरे बुबुधिरे ॥ अस्येति ॥ पुरा पूर्वकल्पे निर्जरा देवाः वासुकिं तत्संज्ञं सर्पश्रेष्ठम् । अयमिति शेषः । आयामतः दैर्घ्यात् अस्य गरुडस्य उपवीतं किल यज्ञसूत्रमिव, वर्तत इति शेषः । इति एवंप्रकारम् । 'इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इत्यमरः । समयोस्सदृशयोर्भावस्साम्यं अवधारयन्तः निश्चिन्वन्तस्सन्तः मेरुधन्वनः मेरुरूपधनुष इत्यर्थः । 'धनुश्चापो धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । मौर्वी शिञ्जिनी तस्याः पदे स्थाने आदिशन्न्ययोजन् । उच्चारणार्थस्य 'दिश' धातोर्लङि रूपम् । इतीत्थं ऐतिहासिकाः भारतादीतिहासविदः, 'आख्यानाख्यायिकेतिहासपुराणेभ्यश्च' (वा. ४.२.६०) इत्यध्येतृवेदित्रर्थे ठक्प्रत्ययः । ओङ्कारस्वरूपं वासुदेवशयनागारं वर्णयति ॥ पश्येति ॥ ज्ञानक्रियेच्छाः ज्ञानशक्तिक्रियाशक्तीच्छाशक्तय एव मणिमया मणिविकाराः मुकुरा आदर्शाः तैराबद्धं सम्बद्धम् । यथा राजमन्दिरं भित्तिनिखातशङ्कुसङ्क्रान्तैर्दर्पणैर्विभाति तथेति भावः । ओङ्कारलक्षणं भगवत्सदनं ज्ञानशक्त्यादिभिः विभातीति भावः । ननु 'इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिरिति श्रुताः । विद्यन्ते शक्तयस्सर्वा वासुदेवे परात्मनि ॥