This page has been fully proofread once and needs a second look.

१६०
 
नीलकण्ठविजये सव्याख्याने
 
येनोर्ध्वं पतता पुराणमुनयो नीताः पुरा मेनिरे

संसिद्धं सशरीरमूर्ध्वगमनं सद्यस्तपोभिर्दृढैः ॥ ३३ ॥
 

 
अस्य किलोपवीतमित्यायामतस्साम्यमवधारयन्तः पुरा निर्जरा
मौर्वीपदे मेरुधन्वनो वासुकिमादिशभिन्निति वदन्त्यैतिहासिकाः ।

 
पश्य ज्ञान क्रियेच्छामणिमयमुकुराबद्धमध्यात्मविद्या-

भास्वद्रत्नप्रदीपप्रकरपरिहृतध्वान्तमन्तस्समन्तात्

गाढाविद्याकवाटं प्रबलशमदमद्वारपालाभिगुप्तं

भक्तिद्वारं मुरारेरिदमिह शयनागारमोङ्काररूपम् ॥ ३४ ॥'
 

 

 

 
[commentary]
 
तस्य न्यासाटोपेन विन्याससंरम्भेण विभमाग्ना भङ्गं प्राप्ता अत एव चञ्चुविधृता
त्रोटीविधृता या न्यग्रोधस्य वटस्य शाखा तां गताः प्राप्ताः पुराणाः ये मुनयः तैः
दृढैस्संसारतारकै:कैः तपोभिरुपासनादिभिः सद्य:यः उपासनावसरे सशरीरं शरीरेण
सह वर्तनं यथा तथा । ऊर्ध्वगमनम् ऊर्ध्वलोकान् प्रति यानम् । संसिद्धं सम्प्राप्त-
मितीत्थं मेनिरे बुबुधिरे ॥ अस्येति ॥ पुरा पूर्वकल्पे निर्जरा देवा:वाः वासुकिं
तत्संज्ञं सर्पश्रेष्ठम् । अयमिति शेषः । आयामतः दैर्ध्घ्यात् अस्य गरुडस्य
उपवीतं किल यज्ञसूत्रमिव, वर्तत इति शेषः । इति एवंप्रकारम् । ' इति हेतु-
प्रकरणप्रकारादिसमाप्तिषु' इत्यमरः । समयोस्सदृशयोर्भावस्साम्यं अवधारयन्तः
निश्चिन्वन्तस्सन्तः मेरुधन्वन:नः मेरुरूपधनुष इत्यर्थः । 'धनुश्चापो धन्वशरासन-
कोदण्डकार्मुकम्' इत्यमरः । मौर्वी शिञ्जिनी तस्याः पदे स्थाने आदिशन्
न्ययोजन् । उच्चारणार्थस्य 'दिश'घा धातोर्लङि रूपम् । इतीत्थं ऐतिहासिकाः
भारतादीतिहासविद'दः, 'आख्यानाख्यायिकेतिहासपुराणेभ्यश्च' (वा. 42-60 ४.२.६०)
इत्यध्ये तृवेदित्रर्थे ठकूक्प्रत्ययः । ओङ्कारस्वरूपं वासुदेवशयनागारं वर्णयति
॥ पश्येति ॥ ज्ञानक्रियेच्छा:छाः ज्ञानशक्तिक्रियाशक्तीच्छाशक्तय एव मणिमया
मणिविकाराः मुकुरा आदर्शा:शाः तैराबद्धं सम्बद्धम् । यथा राजमन्दिरं भित्तिनिखातशङ्क-
कुसङ्क्रान्तैर्दर्पणैर्विभाति तथेति भावः । ओङ्कारलक्षणं भगवत्सदनं ज्ञानशक्त्यादिभिः
विभातीति भावः । ननु 'इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिरिति श्रुताः । विद्यन्ते
शक्तयस्सर्वा वासुदेवे परात्मनि ॥" इति वचनात् 'ज्ञानादिमत्त्वं भगवत इति विज्ञायते