This page has been fully proofread twice.

विकीर्यमाणेषु नन्दनोद्यानपादपेषु, प्रयत्नेन महता पारिजातमेकमाहृतवतो भगवतोऽपि मन्दाक्षमिवालक्ष्यत इति संशृणुमहे । अपि च ।
 
छन्दो यथा यथा शौरेस्सङ्ग्रामेषु जिगीषतः ।
तथा तथा प्रवृत्तोऽयं छन्दोमय इतीर्यते ॥ ३२ ॥
 
पादाङ्गुष्ठनखाग्रलम्बितमहाकूर्मद्विपाङ्घ्रिद्वय-
न्यासाटोपविभग्नचञ्चुविधृतन्यग्रोधशाखां गताः ।
 
[commentary]
 
यस्येति ॥ नन्दनोद्यानं नन्दनसंज्ञकोपवनं तस्मिन् पादपाः वृक्षाः तेषु । यस्य गरुडस्य किल पुरा पूर्वकल्पे सुधाकुम्भः अमृतपूरितकलशः तस्य हरणं अपहारसमयः तस्मिन् संरम्भ उद्योगः स च सम्भ्रमस्त्वरा स च तौ ताभ्यां उद्भूतस्समुत्पन्नः यः पक्षमारुतः पक्षसम्बन्धिपवमानः तस्य विक्षेपः ताडनं तेन समुन्मूलिततया समुत्खाततया परितः सर्वतः विकीर्यमाणेषु परिस्तीर्णेषु सत्सु । महता अधिकेन, प्रयत्नेन, एकं पारिजातं वृक्षं आहृतवतः आनीतवतः भगवतोऽपि नारायणस्यापि मन्दाक्षं लज्जैव । 'मन्दाक्षं ह्रीस्रपा व्रीडा' इत्यमरः । अलक्ष्यत अलोक्यत इति संशृणुमहे श्रवणं कुर्मः ॥ अपि चेति ॥ छन्दोमयपदप्रवृत्तिनिमित्तमाह ॥ छन्द इति ॥ सङ्ग्रामेषु युद्धेषु, जिगीषतः जेतुमिच्छतः शौरेर्वासुदेवस्य छन्दः अभिप्रायः । 'छन्दः पद्ये च वेदे च स्वैराचाराभिलाषयोः' इति सान्तवर्गे त्र्यक्षरशब्देषु मेदिनी । यथा यथा येन येन प्रकारेण प्रवृत्तमासीदिति लिङ्गपरिणामेनान्वयः । तथा तथा तेन तेन प्रकारेण प्रवृत्तः अनुवृत्तः अयं गरुडः छन्दोमयः अभिप्रायमयः, गायत्र्यादिच्छन्दसां विकारश्च । 'गायत्रीप्रमुखं छन्दः' इत्यमरः । इतीत्थं ईर्यते कथ्यते । 'सुपर्णोऽसि गरुत्मान् त्रिवृत्ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनूर्वामदेव्यं बृहद्रथन्तरे पक्षौ, यज्ञायज्ञियं पुच्छं छन्दाँस्यङ्गानि धिष्णियाश्शफा यजूँषि नाम' इति (तै. सं. ४.१.४५) श्रुतेः । गरुडस्यैव माहात्म्यान्तरमाह । अपि च पादेति ॥ ऊर्ध्वम् उपरिदेशं प्रति पतता गच्छता येन गरुडेन । अथवा येन पतता गरुडपक्षिणा । 'पतत्पत्ररथाण्डजाः' इत्यमरः । ऊर्ध्वं उपरिदेशं नीताः गमिताः पादाङ्गुष्ठयोः पादस्थूलाङ्गुळ्योः अग्रमग्रभागः तत्र लम्बितौ सङ्क्रान्तौ महाकूर्मद्विपौ कूर्मगजेन्द्रौ यस्य तत्तथाभूतं यत् अङ्घ्र्योः पादयोः द्वयं युग्मम् । 'पदङ्घ्रिश्चरणोऽस्त्रियाम्' इत्यमरः ।