This page has been fully proofread once and needs a second look.

द्वितीयाभ्वासः
 
विकीर्यमाणेषु नन्दनोद्यानपादपेषु, प्रयत्नेन महता पारिजातमेकमाह-
हृतवतो भगवतोऽपि मन्दाक्षमिवालक्ष्यत इति संभृशृणुमहे । अपि च ।

 
छन्दो यथा यथा शौरेस्सङ्ग्रामेषु जिगीषतः ।

तथा तथा प्रवृत्तोऽयं छन्दोमय इतीर्यते ॥ ३२ ॥

 
पादाङ्गुष्ठ नखाग्र लम्बित महाकूर्मद्विपाङ्घ्रिद्वय -

न्यासाटोपविभग्नचञ्चु विधृतन्यग्रोधशाखां गताः ।
 

 
[commentary]
 
यस्येति ॥ नन्दनोद्यानं नन्दनसंज्ञकोपवनं तस्मिन् पादपाः वृक्षाः तेषु । यस्य
गरुडस्य किल पुरा पूर्वकल्पे सुधाकुम्भ:भः अमृतपूरितकलश:शः तस्य हरणं अपहार -
समयः तस्मिन् संरम्भ उद्योगः स च सम्भ्रमस्त्वरा स च तौ ताभ्यां उद्भूतस्समु-
त्पन्न: य:
त्पन्नः यः पक्षमारुत:तः पक्षसम्बन्धिपवमानः तस्य विक्षेप:पः ताडनं तेन समुन्मूलिततया
समुत्खाततया परितः सर्वतः विकीर्यमाणेषु परिस्तीर्णेषु सत्सु । महता अधिकेन,
प्रयत्नेन, एकं पारिजातं वृक्षं आहृतवतः आनीतवतः भगवतोऽपि नारायणस्यापि
मन्दाक्षं लज्जैव । 'मन्दाक्ष हीपणह्रीस्रपा व्रीडा' इत्यमरः । अलक्ष्यत अलोक्यत इति
संशृणुमहे श्रवणं कुर्मः ॥ अपि चेति ॥ छन्दोमयपदप्रवृत्तिनिमित्तमाह ॥ छन्द
इति ॥ सङ्गाग्रामेषु युद्धेषु, जिगीषत:तः जेतुमिच्छतः शौरेर्वासुदेवस्य छन्दः अभि-
प्राय:यः । 'छन्द:दः पद्ये च वेदे च स्वैराचाराभिलाषयोः' इति सान्तवर्गे त्र्यक्ष-
रशब्देषु मेदिनी । यथा यथा येन येन प्रकारेण प्रवृत्तमासीदिति लिङ्गपरिणा-
मेनान्वयः । तथा तथा तेन तेन प्रकारेण प्रवृत्तः अनुवृत्तः अयं गरुडः छन्दो-
मयः अभिप्रायमयः, गायत्र्यादिच्छन्दसां विकारश्च । 'गायत्रीप्रमुखं छन्दः
इत्यमरः । इतीत्थं ईर्यते कथ्यते । 'सुपर्णोऽसि गरुत्मान् त्रिवृत्ते शिरो गायत्रं
चक्षुः स्तोम आत्मा साम ते तनूर्वामदेव्यं बृहद्रथन्तरे पक्षौ, यज्ञायज्ञियं पुच्छं
छन्दाँस्यङ्गानि घिधिष्णियाश्शफा यजूँषि नाम' इति ( तै. सं. 4-1-45४.१.४५) श्रुतेः।
गरुडस्यैव माहात्म्यान्तरमाह । अपि च पादेति ॥ ऊर्ध्वम् उपरिदेशं प्रति
पतता गच्छता येन गरुडेन । अथवा येन पतता गरुडपक्षिणा । 'पतत्पत्रर-
थाण्डजाः' इत्यमरः । ऊर्ध्वं उपरिदेशं नीताः गमिताः पादाङ्गुष्ठयोः पादस्थूला-
ङ्गुळयो:ळ्योः अग्रमप्ग्रभागः तत्र लम्बितौ सङ्क्रान्तौ महाकूर्मद्विपौ कूर्मगजेन्द्रौ यस्य
तत्तथाभूतं यत् अङ्घ्र्योः पादयोः द्वयं युम्ग्मम् । 'पदङ्घ्रिश्चरणोऽस्त्रियाम्' इत्यमरः ।