2023-09-13 06:51:27 by Bharadwajraki
This page has been fully proofread twice.
हरेयम्, इति प्रश्रितवादिनि पद्मसम्भवे, प्रसन्नाः पारिषदा हस्तग्राहमाकर्षन्तस्तमन्तिक एव दर्शयामासुरान्तरं रहस्यमुपनिषदाम् ।
'यं त्वं चिन्तयसे नान्यं सर्वारम्भेषु सर्वदा ।
सत्त्वं चिन्तय सेनान्यं विष्वक्सेनमिमं हरेः ॥ ३१ ॥
इमञ्च पश्य वैनीतकं भगवतो वैनतेयम्, यस्य किल पुरा कल्पे
सुधाकुम्भहरणसंरम्भसम्भ्रमोद्धूतपक्षमारुतविक्षेपसमुन्मूलिततया परितो
[commentary]
प्रश्रयः, विनय इति यावत् । भावे क्तः । तेन वादिनि । अथवा, प्रश्रितः विनीतः स चासौ वादी चेति कर्मधारयः । 'विनीतप्रश्रितौ समौ' इत्यमरः । अभिदधति पद्मसम्भवे ब्रह्मणि विषये प्रसन्नाः प्रसादसहिताः अनुग्रहशालिन इति यावत् । पारिषदाः परिषदि साधवः 'परिषदो ण्यः' (४.४.१०१) इत्यत्र 'परिषद' इति योगविभागात् aण्यप्रत्ययः । तं ब्रह्माणं हस्ते गृहीत्वा हस्तग्राहम् आकर्षन्तः आनयन्तस्सन्तः अन्तिक एव समीप एव । 'उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्' इत्यमरः । उपनिषदां वेदान्तानां आन्तरं अन्तःस्थं रहस्यं गोप्यमर्थम् । 'रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु' इत्यमरः । दर्शयामासुः दर्शनं कारयामासुः । एतदारभ्य पश्येत्यन्तेन वासुदेवपरिवारनेव दर्शयामासुरित्याह ॥ यं त्वमिति ॥ सर्वदा सर्वस्मिन् काले सर्वारम्भेषु सर्वेषां कार्याणामारम्भेषु उपक्रमेषु । 'ज्ञात्वारम्भ उपक्रमः' इत्यमरः । त्वं यं नान्यं अनतिरिक्तम् अभिन्नमित्यर्थः । नञ्शब्दस्य 'सुप्सुपे'ति समासः । चिन्तयसे ध्यायसि । सेनां नयतीति सेनानीः । 'सत्सूद्विष--' (३.२.६९) इत्यादिना क्विप्प्रत्ययः । तं सेनान्यं सेनापतिमित्यर्थः । 'सेनानीस्स्यात्पुमान् कार्तिकेये सेनापतौ पुमान्' इति यादवः । हरेः भगवतो नारायणस्य सत्त्वं प्राणभूतमित्यर्थः । 'द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु' इत्त्यमरः । तमिमं विषूची सेना यस्य स विष्वक्सेनः तन्नामकं चिन्तय पश्य । प्रथममेतद्दर्शने सर्वं कार्यं निर्विघ्नं सिध्यतीति भावः ॥ इममिति ॥ विनीत एव वैनीतकः । स्वार्थे ठक्प्रत्ययः । वाहनीभूतमित्यर्थः । 'परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम्' इत्यमरः । इमं विनताया अपत्यं वैनतेयः 'स्त्रीभ्यो ढक्' (४.१.१२०) इति ढक्प्रत्ययः । तं गरुडं पश्य विजानीहि । गरुडमेव स्तौति पद्यद्वयसहितेन गद्येन ॥
a. अण्प्रत्ययोऽपि ॥