2023-09-13 06:44:00 by Bharadwajraki
This page has been fully proofread twice.
इति बोधितो विधिरिदमाचचक्षे । 'जानामि भगवतो जानामि ।
कतीन्द्राः कति लोकेशाः कति विश्वसृजोऽथ वा ।
श्वासे श्वासे प्रजायन्ते प्रलीयन्ते च शार्ङ्गिणः ॥ २९-३० ॥
तथापि क्वचिन्नियुक्तेन मया तदनुगुणं चेष्टितव्यमिति व्यवस्यन्नागतोऽस्मि । तदद्य भवद्भिरेव दर्शितं भगवन्तमभिगम्य, भवद्दत्तैरेवाक्षरैर्व्या-
[commentary]
भावः । तत्तस्मात् हे वत्स दिवि स्वर्गे चरतस्सञ्चारं कुर्वतः इमान् परिदृश्यमानान् क्षुद्रान् कृपणान् । 'कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः' इत्यमरः । जन्तून् शरीरिणः । 'प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः' इत्यमरः । त्यक्त्वा विसृज्य । निस्सङ्गतायाः परसुखहेतुत्वादिति भावः । त्वं आत्मनीनं आत्मने हितं, लक्ष्मीस्सहायभूता यस्य तत् । अथवा, लक्ष्म्याः सहायं, परमं ब्रह्म चिन्तयन्
ध्यायन् किमपि न प्रार्थयेथाः प्रार्थनं मा कुर्वित्यर्थः । फलाभिसन्धिशालिनः कस्य वा उत्तमपदलाभो भवतीति भावः ॥ इतीति ॥ इतीत्थं बोधित आवेदितो विधिर्ब्रह्मा एवं वक्ष्यमाणरीत्या आचचक्षे जगाद । जानामि वेद्मि, भगवतः महिमवतः जानामि वेद्मि ॥ कतीति ॥ शार्ङ्गं धनुः तदस्यास्तीति शार्ङ्गी । 'अत इनिठनौ' (५.२.११५) इति इनिप्रत्ययः । तस्य महाविष्णोः श्वासो निःश्वासपवनः, श्वासे श्वासे। वीप्सायां द्विर्भावः । प्रतिश्वासमित्यर्थः । कतीन्द्राः कति लोकेश्वरा अग्न्यादयः अथवा कति विश्वसृजो ब्रह्माणः । 'विश्वसृड्विधिः' इत्यमरः । प्रजायन्ते उत्पन्ना, भवन्ति । प्रलीयन्ते विलीना भवन्ति । उत्पन्नविनष्टकल्पानामनेकेषामस्मादृशां सत्त्वादेतस्मिन् मम का वा आस्थेति भावः । विद्वानपि
किमर्थं कातर्यलम्पट इव भ्रमसीति चेदत आह ॥ तथापीति । जानन्नपि क्वचित्कस्मिंश्चित्कार्ये नियुक्तेन आज्ञप्तेन मया तस्य नियोगस्य कार्यस्य वा अनुगुणम् अनुरूपं चेष्टितव्यं यतितव्यम् इतीत्थं व्यवस्यन्निश्चिन्वन्नागतोऽस्मि । तत्रत्य विष्णुपारिषदास्सविनयमालपन्तः ब्रह्माणं विष्णुसमीपं गमयन्तोऽन्तिकस्थं विष्वक्सेनं दर्शयामासुरित्याह ॥ तदिति ॥ तत्तस्मादद्येदानीं भवद्भिः युष्माभिरेव दर्शितं भगवन्तम् अप्रच्युतैश्वर्यशालिनं नारायणम् अधिगम्य प्राप्य भवद्दत्तैः युष्मामिरुपदिष्टैरेव अक्षरैः वचनैः व्याहरेयम् आलपेयम् । सम्भावनायां लिङ् । भवदुपदेशमन्तरा तत्र सँल्लपितुतुं मम सामर्थ्यं नास्तीति भावः । प्रश्रितवादिनि प्रश्रितं
कतीन्द्राः कति लोकेशाः कति विश्वसृजोऽथ वा ।
श्वासे श्वासे प्रजायन्ते प्रलीयन्ते च शार्ङ्गिणः ॥ २९-३० ॥
तथापि क्वचिन्नियुक्तेन मया तदनुगुणं चेष्टितव्यमिति व्यवस्यन्नागतोऽस्मि । तदद्य भवद्भिरेव दर्शितं भगवन्तमभिगम्य, भवद्दत्तैरेवाक्षरैर्व्या-
[commentary]
भावः । तत्तस्मात् हे वत्स दिवि स्वर्गे चरतस्सञ्चारं कुर्वतः इमान् परिदृश्यमानान् क्षुद्रान् कृपणान् । 'कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः' इत्यमरः । जन्तून् शरीरिणः । 'प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः' इत्यमरः । त्यक्त्वा विसृज्य । निस्सङ्गतायाः परसुखहेतुत्वादिति भावः । त्वं आत्मनीनं आत्मने हितं, लक्ष्मीस्सहायभूता यस्य तत् । अथवा, लक्ष्म्याः सहायं, परमं ब्रह्म चिन्तयन्
ध्यायन् किमपि न प्रार्थयेथाः प्रार्थनं मा कुर्वित्यर्थः । फलाभिसन्धिशालिनः कस्य वा उत्तमपदलाभो भवतीति भावः ॥ इतीति ॥ इतीत्थं बोधित आवेदितो विधिर्ब्रह्मा एवं वक्ष्यमाणरीत्या आचचक्षे जगाद । जानामि वेद्मि, भगवतः महिमवतः जानामि वेद्मि ॥ कतीति ॥ शार्ङ्गं धनुः तदस्यास्तीति शार्ङ्गी । 'अत इनिठनौ' (५.२.११५) इति इनिप्रत्ययः । तस्य महाविष्णोः श्वासो निःश्वासपवनः, श्वासे श्वासे। वीप्सायां द्विर्भावः । प्रतिश्वासमित्यर्थः । कतीन्द्राः कति लोकेश्वरा अग्न्यादयः अथवा कति विश्वसृजो ब्रह्माणः । 'विश्वसृड्विधिः' इत्यमरः । प्रजायन्ते उत्पन्ना, भवन्ति । प्रलीयन्ते विलीना भवन्ति । उत्पन्नविनष्टकल्पानामनेकेषामस्मादृशां सत्त्वादेतस्मिन् मम का वा आस्थेति भावः । विद्वानपि
किमर्थं कातर्यलम्पट इव भ्रमसीति चेदत आह ॥ तथापीति । जानन्नपि क्वचित्कस्मिंश्चित्कार्ये नियुक्तेन आज्ञप्तेन मया तस्य नियोगस्य कार्यस्य वा अनुगुणम् अनुरूपं चेष्टितव्यं यतितव्यम् इतीत्थं व्यवस्यन्निश्चिन्वन्नागतोऽस्मि । तत्रत्य विष्णुपारिषदास्सविनयमालपन्तः ब्रह्माणं विष्णुसमीपं गमयन्तोऽन्तिकस्थं विष्वक्सेनं दर्शयामासुरित्याह ॥ तदिति ॥ तत्तस्मादद्येदानीं भवद्भिः युष्माभिरेव दर्शितं भगवन्तम् अप्रच्युतैश्वर्यशालिनं नारायणम् अधिगम्य प्राप्य भवद्दत्तैः युष्मामिरुपदिष्टैरेव अक्षरैः वचनैः व्याहरेयम् आलपेयम् । सम्भावनायां लिङ् । भवदुपदेशमन्तरा तत्र सँल्लपि