2023-06-05 16:40:07 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः
१५७
इति बोधितो विधिरिदमाचचक्षे । 'जानामि भगवतो जानामि ।
कतीन्द्राः कति लोकेशाः कति विश्वसृजोऽथ वा ।
श्वासे श्वासे प्रजायन्ते प्रलीयन्ते च शाणिः ॥ २९-३० ॥
तथापि क्वचिनियुक्तेन मया तदनुगुणं चेष्टितव्यमिति व्यवस्यन्नागतो-
ऽस्मि । तदद्य भवद्भिरेव दर्शितं भगवन्तमभिगम्य, भवछत्तैरेवाक्षर्या -
भावः । तत्तस्मात् हे वत्स दिवि स्वर्गे चरतस्सञ्चारं कुर्वतः इमान् परिदृश्य-
मानान् क्षुद्रान् कृपणान् । 'कदर्ये कृपणक्षुद्रकिम्पचान मितम्पचाः' इत्यमरः ।
जन्तून् शरीरिण: । 'प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः' इत्यमरः ।
त्यक्त्वा विसृज्य । निस्सङ्गतायाः परसुखहेतुत्वादिति भावः । त्वं आत्मनीनं आत्मने
हितं, लक्ष्मीस्सहायभूता यस्य तत् । अथवा, लक्ष्म्याः सहायं, परमं ब्रह्म चिन्तयन्
ध्यायन् किमपि न प्रार्थयेथाः प्रार्थनं मा कुर्वित्यर्थः । फलाभिसन्धिशालिनः कस्य
वा उत्तमपदलाभो भवतीति भावः ॥ इतीति ॥ इतीत्थं बोधित आवेदितो
विधिमा एवं वक्ष्यमाणरीत्या आचचक्षे जगाद जानामि वेद्मि, भगवतः
महिमवतः जानामि वेद्मि ॥ कतीति ॥ शार्ङ्ग धनुः तदस्यास्तीति शाङ्ग । 'अत
इनिठनौ' (5-2-115) इति इनिप्रत्ययः । तस्य महाविष्णोः श्वासो निःश्वासपवनः,
श्वासे श्वासे। वीप्सायां द्विर्भावः । प्रतिश्वासमित्यर्थः । कतीन्द्राः कति लोकेश्वरा
अग्न्यादयः अथवा कति विश्वसृजो ब्रह्माणः । 'विश्वसृडिधिः' इत्यमरः ।
प्रजायन्ते उत्पन्ना, भवन्ति । प्रलीयन्ते विलीना भवन्ति । उत्पन्नविनष्टकल्पा-
नामनेकेषामस्मादृशां सत्त्वादेतस्मिन् मम का वा आस्थेति भावः । विद्वानपि
किमर्थं कातर्यलम्पट इव भ्रमसीति चेदत आह ॥ तथापीति । जानन्नपि क्वचित्
कस्मिंश्चित्कार्ये नियुक्तेन आज्ञप्तेन मया तस्य नियोगस्य कार्यस्य वा अनुगुणम्
अनुरूपं चेष्टितव्यं यतितव्यम् इतीत्थं व्यवस्यन्निश्चिन्वन्नागतोऽस्मि । तत्रत्य विष्णु-
पारिषदास्सविनयमालपन्तः ब्रह्माणं विष्णुसमीपं गमयन्तोऽन्तिकस्थं विष्वक्सेनं
दर्शयामासुरित्याह ॥ तदिति ॥ तत्तस्मादद्येदानीं भवद्भिः युष्माभिरेव दर्शितं
भगवन्तम् अप्रच्युतैश्वर्यशालिन नारायणम् अधिगम्य प्राप्य भवद्दत्तैः युष्मामिरुप-
दिटैरेव अक्षरैः वचनैः व्याहरेयम् आलपेयम् । सम्भावनायां लिङ् । भवदुपदेश-
मन्तरा तत्र सँल्लपितु मम सामर्थ्य नास्तीति भावः । प्रश्रितवादिनि प्रश्रित