This page has been fully proofread twice.

'कथमद्यापि वत्स न परिणतोऽसि ।
 
वल्लभोऽसि सरस्वत्या वहसे च श्रुतीर्मुखे ।
जगत्पितामहश्चासि कस्तवाप्यनुशासिता ॥ २८ ॥
 
तच्चिन्तय तावत्स्वयमेव ।
 
आयुर्येषाममीषां परमममिभिमतं किञ्चिदूनो मुहूर्तः
का सम्पद्वा विपद्वा प्रभवति भवितुं तत्र तेषां क्षणार्धे ।
तत्त्यक्त्वा क्षुद्रजन्तून् दिवि चरत इमान् चिन्तयन्नात्मनीनं
वत्स त्वं प्रार्थयेथा न किमपि परमं ब्रह्म लक्ष्मीसहायम् ॥'
 
[commentary]
 
येषां ते तथाविधैः । उपगतैः सम्मुखं समीपं प्रत्यागतैः सम्माननार्थमिति भावः । प्राचीनैः पुरातनैः कमलासनैः ब्रह्मभिः प्रत्येकं पृथक् सस्नेहं स्नेहेनानुरागेण सह वर्तनं यथा तथा । सदयं दयया दुःखप्रहाणेच्छया सह वर्तनं यथा तथा । सखेदमपि च खेदेन व्यथया सह वर्तनं यथा तथा । आदिश्यत आपृच्छ्यत । तत्रत्यास्सर्वेऽपि ब्रह्माणस्समागत्य प्रत्येकमेतं ब्रह्माणं पप्रच्छुरिति भावः । प्रश्नप्रकारमेवाह ॥ कथमित्यादिना ॥ हे वत्स शिशुकल्प कथं अद्यापि त्वमिति शेषः । परिणतः प्रबुद्धः नासि न भवसीत्यर्थः ॥ वल्लभ इति ॥ सरस्वत्याः त्वं वल्लभः प्रियः असि भवसि मुखे च श्रुतीः वेदान् । 'वेदे श्रवसि च श्रुतिः' इत्यमरः । वहसे धरसीत्यर्थः । जगतां लोकानां पितामहः पितृपिता चासि भवसि, तवापि कः अनुशासिता कः शिक्षकः अस्तीत्यर्थः । 'उद्धरेदात्मनाऽऽत्मानम्' इति शास्त्राद्बुद्धिमता स्वेनैव सर्वे पर्यालोचनीयमिति भावः । तत्तस्मात् स्वयमेव तावच्चिन्तय परिभावयेत्यर्थः ॥ आयुरिति ॥ येषाममीषां देवानां, परमम् उत्कृष्टं पूर्णमिति यावत् । आयुः जीवनपरिमितकालः । 'आयुर्जीवितकालो ना जीवातुर्जीवनौषधम्' इत्यमरः । किञ्चिदूनः एकांशेन विकलः मुहूर्तः घटिकाद्वयम्, अभिहितम् अभिमतमिति वा पाठः । उक्तं सम्मतमिति वाऽर्थः । ब्रह्ममानदृष्ट्या मानवमानस्येव वैष्णवलोकमानदृष्ट्या देवमानस्यातिस्वल्पत्वाद्विष्णुमानानुरोधेन समग्रं मुहूर्तमात्रमपि देवानामायुर्नास्तीति भावः । तत्र क्षणार्धे अर्धक्षणे विष्णुलोकदृष्ट्येति भावः । तेषां देवानां का वा सम्पदभ्युदयः विपदपचयः भवितुं वर्तितुं प्रभवति समर्था भवति । अर्धक्षणिकयोः प्राप्तयोः सम्पद्विपदोर्हर्षः कियान् विषादो वा कियानिति