This page has been fully proofread twice.

पश्यन्नथ तत्र पाकशासनमुखानमरान् प्रासादशिखरारोहणकुतूहलिनः पङ्गूनिव भग्नमनोरथान्, प्रसादविमलया दृष्ट्याऽनुगृह्य सहागच्छत मयेति सन्दिशभग्रतश्चचाल कमलासनः ।
 
गच्छन्नेव ततस्स तत्र गळितब्रह्माधिकारैश्चिरात्
ऐकान्त्यं परमं गतैर्भगवति श्रीवल्लभे दुर्लभे ।
प्राचीनैः कमलासनैरुपगतो भक्त्या महत्या नमन्
सस्नेहं सदयं सखेदमपि च प्रत्येकमादिश्यत ॥ २७ ॥
 
[commentary]
 
इत्याह ॥ पश्यन्निति ॥ अथ अनन्तरं, कमलासनो ब्रह्मा प्रासादाः, देवगृहाः राजगृहा वा । 'प्रासादो देवभूभुजाम्' इत्यमरः । तेषां यानि शिखराणि शृङ्गाणि । 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । तेषां आरोहणे अधिरोहणविषये कुतूहलिनः कुतूहलवन्तः । 'कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम् इत्यमरः । भग्नः अनिर्वृत्तः मनोरथः सङ्कल्पो येषां ते तथाविधान् पङ्गून् पादविकलानिव स्थितान् । 'पङ्गुस्स्यात्पादविकलः' इत्यभिधानात् । पाकशासनमुखान् इन्द्रादीन् अमरान्, प्रसादेन अनुग्रहेण विमलया निर्मलया सादरं द्रष्टुं प्रवृत्तयेति भावः । दृष्ट्या अक्ष्णा । 'दृष्टिर्ज्ञाने दर्शने' इत्यमरः । पश्यन् अवलोकयन्, सन् । मया सह आगच्छत आयात इतीत्थं अनुगृह्य, सन्दिशन् सँल्लपन् अग्रतः पुरतः
चचाल जगाम । के वा महान्तः प्रयोजनावसरे स्वालम्बिनो जनान् इष्टार्थदातृनिकटं न प्रवेशयन्तीति भावः । गच्छन्नेव ब्रह्मा तावन्निरतिशयभगवद्भक्तिभरितैः प्राचीनविसृष्टाधिकारवैकुण्ठवासिब्रह्मभिः किञ्चिदापृष्ट इत्याह ॥ गच्छन्निति ॥ ततः निर्गमनानन्तरं तत्र मार्गे गच्छन् गमनं कुर्वन् नमन्नमस्कारं कुर्वन् सः सत्यलोकवासी ब्रह्मा भगवति निरतिशयषाड्गुण्यवति दुर्लभे दुष्प्रापे श्रीवल्लभे नारायणे महत्या भक्त्या अधिकया उत्कृष्टया वा भक्त्येत्यर्थः । चिरात् अनादिकालादारभ्य परममुत्कृष्टं एकविधः अन्तः स्वरूपं येषां ते तथा । 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिके करे’ इति नानार्थरत्नमाला । एकान्तानां भावः ऐकान्त्यम्, सारूप्यमिति यावत् । ऐकान्त्यम् अन्तिकदेशं वा 'ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्' इति स्मृतिः । गतैः प्राप्तैः गळितः अतीतः ब्रह्माधिकारः ब्रह्माधिकारलक्षणप्रारब्धकर्म