This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः
 
पश्यन्नथ तत्र पाकशासनमुखानमरान् प्रासादशिखरारोहण-
कुतूहलिन:नःङ्गूनिव भग्नमनोरथान्, प्रसाद विमलया दृष्ट्याऽनुगृह्य
सहागच्छत मयेति सन्दिशभग्रतश्चचाल कमलासनः ।

 
गच्छन्नेव ततस्स तत्र गळितब्रह्माधिकारैश्चिरात्

ऐकान्त्यं परमं गतैर्भगवति श्रीवल्लभे दुर्लभे ।

प्राचीनैः कमलासनैरुपगतो भक्तथा महत्या नमन्
त्या महत्या नमन्
सस्नेहं सदयं सखेदमपि च प्रत्येकमादिश्यत ॥ २७ ॥
 
१५५
 

 
[commentary]
 
इत्याह ॥ पश्यन्निति ॥ अथ अनन्तरं, कमलासनो ब्रह्मा प्रासादाः, देवगृहा:
हाः राजगृहा वा । 'प्रासादो देवभूभुजाम्' इत्यमरः । तेषां यानि शिखराणि शृङ्गाणि ।
'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । तेषां आरोहणे अधिरोहणविषये कुतूह-
लिन:नः कुतूहलवन्तः । 'कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम् इत्यमरः ।
भग्म:नः अनिर्वृत्त:तः मनोरथ:थः सङ्कल्पो येषां ते तथाविधान् पङ्गून् पादविकलानिव
स्थितान् । 'पङ्गुस्स्यात्पाद विकल:लः' इत्यभिधानात् । पाकशासनमुखान् इन्द्रा-
दीन् अमरान्, प्रसादेन अनुग्रहेण विमलया निर्मलया सादरं द्रष्टुं प्रवृत्तयेति भावः ।
दृष्ट्या अक्ष्णा । 'दृष्टिर्ज्ञाने दर्शने' इत्यमरः । पश्यन् अवलोकयन्, सन् ।
मया सह आगच्छत आयात इतीत्थं अनुगृह्य, सन्दिशन् सँल्लपन् अग्रतः पुरतः

चचाल जगाम । के वा महान्तः प्रयोजनावसरे स्वालम्बिनो जनान् इष्टार्थदातृ-
निकटं न प्रवेशयन्तीति भावः । गच्छन्नेव ब्रह्मा तावन्निरतिशयभगवद्भक्तिभरितैः
प्राचीनविसृष्टाधिकारवैकुण्ठवासिब्रह्मभिः किञ्चिदापृष्ट इत्याह ॥ गच्छन्निति ॥
ततः निर्गमनानन्तरं तत्र मार्गे गच्छन् गमनं कुर्वन् नमन् नमस्कारं कुर्वन् सः
सत्यलोकवासी ब्रह्मा भगवति निरतिशयषाड्गुण्यवति दुर्लभे दुष्पाप्रापे श्रीवल्लभे
नारायणे महत्या भक्त्या अधिकया उत्कृष्टया वा भक्त्येत्यर्थ:थः । चिरात् अनादि-
कालादारभ्य परममुत्कृष्टं एकविधः अन्तः स्वरूपं येषां ते तथा । 'अन्तोऽस्त्री
निश्चये नाशे स्वरूपेऽग्रेऽन्तिके करे? इति नानार्थरत्नमाला । एकान्तानां
भाव:वः ऐकान्त्यम्, सारूप्यमिति यावत् । ऐकान्त्यम् अन्तिकदेशं वा 'ब्रह्मणा सह
ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्' इति
स्मृतिः । गतैः प्राप्तैः गळितः अतीतः ब्रह्माधिकारः ब्रह्माधिकारलक्षणप्रारब्धकर्म