This page has not been fully proofread.

१५४
 
नीलकण्ठविजये सव्याख्याने
 
स्थानं विश्वशृजोऽपि तन्निरय इत्याचक्षते यद्विदो
यद्गत्वा गमनीयमुत्तरमितः कुत्रापि न श्रूयते ।
आयस्यापि हि साधयन्ति यतयो यत्रारुरुक्षां परं
तद्द्दृष्ट्वापि पदं हरेस्सुरगणास्तस्तम्भिरे गाहितुम् ॥ २५॥
 
अपि च ।
 
दध्युर्यावदुपायं ते गन्तुं तत्र दिवौकसः ।
तावन्निध्युरायान्तं तत्र देवं पितामहम् ॥ २६ ॥
 
इति धातोर्लङि 'पाघ्राध्मा-' (3-1-137) इत्यादिना पश्यादेशः । सर्वोत्तममपि स्पृह-
णीयं सन्निहितदृष्टमपि तद्वैष्णवं पदं गन्तुं देवा नाशक्नुवन्नित्याह ॥ स्थानमिति ॥
यद्विदः यद्वैष्णवपदवेत्तारः विश्वसृजः ब्रह्मणः स्थानमपि निरय इति नरक इत्याचक्षते
कथयन्ति । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्' इत्यमरः । यद्वैष्णव-
पदं गत्वा प्राप्य इतः विष्णुपदात् उत्तरम् उत्तमं गमनीय गन्तव्यं कुत्रापि देशे
कालेऽपीत्यर्थः । न श्रूयते श्रुतिविदितो न भवतीत्यर्थः । यतयः जितेन्द्रियाः ।
'ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते इत्यमरः । आयस्यापि आयासं
प्राप्यापीत्यर्थः । यत्र यद्विष्णुपद विषयिणीं आरुरुक्षाम् आरोदुमिच्छां साधयन्ति
साम्पादयन्ति । सुराणां गणाः परमुत्कृष्टं हरेस्तत्पदं स्थानं दृष्ट्वापि अवगाहितुं
प्रवेष्टं तस्तम्भिरे स्तब्धा बभूवुः । के वा महदनुग्रहमन्तरा उत्तमपदं प्राप्नुयुरिति
भाव: । तदानीं देवास्तत्पदप्रवेशनिमित्तालोचनसमये आगच्छन्तं ब्रह्माणं दह-
शुरित्याह ॥ दध्युरिति ॥ यत्र देशे दिवौकसो देवाः गन्तुं तत्पदं प्रवेष्टुं उपायं
साधनं यावत्कालं दध्युः चिन्तयामासुः । 'ध्यै चिन्तायाम्' इति धातोलिंट् । तत्र
तस्मिन् देशे तावत् तावत् काले आयान्तम् आगच्छन्तं देवं पूज्यं पितामहं ब्रह्माणं
निदध्युः ददृशुः । 'नीत्युपसर्ग पूर्वस्य ध्यायतेदर्शनार्थकत्वात् । 'निर्वर्णनं तु निघ्यानं
दर्शनालोकनेक्षणम्' इत्यमरः । समागतो ब्रह्मा देवानाहूय तैस्सहोपगन्तुं प्रचक्रम
 
a. 'अवगाहितुम्' इति व्याख्यापाठः ।
 
-
 
1. दध्युः – निदध्युः – मानसिकव्यापार: आय:, चाक्षुषव्यापारः द्वितीयः ।
उपसर्गेण धात्वर्थ स्यान्यस्य द्योतनात् ॥