This page has been fully proofread once and needs a second look.

अपश्यन्नपि मध्यतस्तस्य किञ्चिदन्तर्निमग्नपुराणभूदारदंष्ट्रादण्डक्षोभितपयःपूरसमुद्धृतमिव नवनीतपिण्डम् अभितश्चलदुच्छृङ्खलतिमितिमिङ्गिलकुलवालविलोडनोद्भूतमारुतोद्धूतपुञ्जीकृतमिव फेनमण्डलम्, एकतः प्रतिपर्वनिर्मुच्यमानपङ्कजनाभशयनोरगनिर्मोकराशिमिव,
कालपरिपाकलब्धमृद्भावनिर्मलं नीवीबन्धमिव वसुन्धरादुकूलस्य, कल्पान्तरीयमन्दरवेष्टनक्लेशजनितया मूर्च्छया पतितस्य वासुकेर्जरतो वलयितमिव भोगमण्डलमप्रतिरूपमन्तरीपम् ।
 
[commentary]
 
स्स्थमुपद्वीपं ददृशुरित्याह । अपश्यन्निति ॥ तस्य क्षीरसमुद्रस्य मध्यतः मध्येऽपि । सार्वविभक्तिकस्तसिः । किञ्चिदल्पं अन्तः कुक्षिदेशे, निमग्नः, पुराणः पुरातनः, अनादिरिति यावत् । 'पुराणप्रतनप्रत्नपुरातनचिरन्तनाः' इत्यमरः । यः भूदारः वराहः 'दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि' इत्यमरः । तस्य दंष्ट्रादण्डः दंष्ट्रैव दण्डः तेन क्षोभितः क्षोभं प्राप्तः यः पयसां क्षीराणां पूरः प्रवाहः तस्मात् समुद्धृतं सम्यगुत्क्षिप्तं नवनीतस्य नवोद्धृतम्य पिण्डमिव । 'नवनीतं नवोद्धृतम्'
इत्यमरः । अभितस्सर्वतः, चलताम्, उच्छृङ्खलानां निर्निरोधानां तिमितिमिङ्गिलाख्यमत्स्यानां वालानां पुच्छानां विलोडनेन प्रतिघातलक्षणमन्थनेन उद्भूतः उत्पन्नः यो मारुतो वायुः तेन उद्धृतानाम् उत्थापितानां फेनानां डिण्डीराणां मण्डलं समूहमिव स्थितम् । एकतः एकदेशे प्रतिपर्वं पर्वणि पर्वणि । वीप्सायामव्ययीभावः । निर्मुच्यमानः विसृज्यमानः पङ्कजनाभस्य पद्मनाभस्य शयनोरगः मञ्चस्थानीयसर्पः । 'शयनं मञ्चपर्यङ्कपल्यङ्काः' इत्यमरः । तस्य निर्मोकानां कञ्चुकानाम् । 'समौ कञ्चुकनिर्मोकौ' इत्यमरः । राशिं पुञ्जमिव कालेन यः परिपाकः परिणामः तेन लब्धः प्राप्तो मृद्भावः मृत्तिकात्वं यस्य स तथाभूतश्चासौ निर्मलश्चेति कर्मधारयः । तं, वसुन्धरायाः भूदेव्याः दुकूलस्य क्षौमस्य । 'क्षौमं दुकूलं स्यात्' इत्यमरः । नीवीरूपं बन्धं ग्रन्थिमिव । 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च' इत्यमरः । कल्पान्तरीयेण पूर्वकल्पसम्बन्धिना मन्दरस्याद्रेः, वेष्टनेन यः क्लेशः खेदः तेन जनितया उत्पादितया मूर्च्छया अवस्थाविशेषेण पतितस्य जरतो जराविशिष्टस्य वासुकेः वासुकिसर्पस्य वलयितं सञ्जातवलयं भोगस्य कायस्य मण्डलं वलयमिव स्थितम् । अप्रतिरूपं असदृशं अन्तरीपं वार्यन्तस्तटप्रदेशम् । 'द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्' इत्यमरः । अपश्यन् ददृशुः । 'दृशिर् प्रेक्षणे'