2023-07-31 06:26:33 by Bharadwajraki
This page has been fully proofread once and needs a second look.
अपश्यन्नपि मध्यतस्तस्य किञ्चिदन्तर्निमग्नपुराणभूदारदंष्ट्रादण्डक्षोभितपयःपूरसमुद्धूधृतमिव नवनीतपिण्डम् अभितश्चलदुच्छृङ्खलतिमितिमिङ्गिलकुलवालविलोडनोद्भूतमारुतोद्धूतपुञ्जीकृतमिव फेनमण्डलम्, एकतः प्रतिपर्वनिर्मुच्यमानपङ्कजनाभशयनोरगनिर्मोकराशिमिव,
कालपरिपाकलब्धमृद्भावनिर्मलं नीवीबन्धमिव वसुन्धरादुकूलस्य, कल्पान्तरीयमन्दरवेष्टनक्लेशजनितया मूर्च्छया पतितस्य वासुकेर्जरतो वलयितमिव भोगमण्डलमप्रतिरूपमन्तरीपम् ।
[commentary]
स्स्थमुपद्वीपं ददृशुरित्याह । अपश्यन्निति ॥ तस्य क्षीरसमुद्रस्य मध्यतः मध्येऽपि । सार्वविभक्तिकस्तसिः । किञ्चिदल्पं अन्तः कुक्षिदेशे, निमग्नः, पुराणः पुरातनः, अनादिरिति यावत् । 'पुराणप्रतनप्रत्नपुरातनचिरन्तनाः' इत्यमरः । यः भूदारः वराहः 'दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि' इत्यमरः । तस्य दंष्ट्रादण्डः दंष्ट्रैव दण्डः तेन क्षोभितः क्षोभं प्राप्तः यः पयसां क्षीराणां पूरः प्रवाहः तस्मात् समुद्धृतं सम्यगुत्क्षिप्तं नवनीतस्य नवोद्धृतम्य पिण्डमिव । 'नवनीतं नवोद्धृतम्'
इत्यमरः । अभितस्सर्वतः, चलताम्, उच्छृङ्खलानां निर्निरोधानां तिमि तिमिङ्गिलाख्य-
मत्स्यानां वालानां पुच्छानां विलोडनेन प्रतिघातलक्षणमन्थनेन उद्भूतः उत्पन्न:नः यो
मारुतो वायुः तेन उद्धृतानाम् उत्थापितानां फेनानां डिण्डीराणां मण्डलं समूह मिव
स्थितम् । एकत:तः एकदेशे प्रतिपत्रर्वं पर्वणि पर्वणि । वीप्सायामव्ययीभावः ।
निर्मुच्यमानः विसृज्यमानः पङ्कजनाभस्य पद्मनाभस्य शयनोरगः मञ्चस्थानीयसर्पः ।
'शयनं मञ्चपर्यङ्कपल्यङ्काः' इत्यमरः । तस्य निर्मोकानां 'कञ्चुकानाम् । 'समौ कञ्चु-
कनिर्मोकौ' इत्यमरः । राशिशिं पुञ्जमित्रव कालेन य:यः परिपाक:कः परिणामः तेन
लब्ध:धः प्राप्तो मृद्भावः मृत्तिकात्वं यस्य स तथाभूतश्चासौ निर्मलश्चेति कर्मधारयः ।
तं, वसुन्धरायाः भूदेव्याः दुकूलस्य क्षौमस्य । 'क्षौमं दुकूलं स्यात्' इत्यमरः ।
नीवीरूपं बन्धं ग्रन्थिमिव । 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च '
' इत्यमरः । कल्पान्तरीयेण पूर्वकल्पसम्बन्धिना मन्दरस्याद्रेः, वेष्टनेन यः क्लेश:
शः खेद:दः तेन जनितया उत्पादितया मूर्च्छया अवस्था विशेषेण पतितस्य जरतो जरा-
विशिष्टस्य वासुके:केः वासुकिसर्पस्य वलयितं सञ्जातवलयं भोगस्य कायस्य मण्डलं
वलयमिव स्थितम् । अप्रतिरूपं असदृशं अन्तरीपं वार्यन्तस्तटप्रदेशम् । 'द्वीपोऽ-
स्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्' इत्यमरः । अपश्यन् ददृशुः । 'दृशिर् प्रेक्षणे'
N - 20
कालपरिपाकलब्धमृद्भावनिर्मलं नीवीबन्धमिव वसुन्धरादुकूलस्य, कल्पान्तरीयमन्दरवेष्टनक्लेशजनितया मूर्च्छया पतितस्य वासुकेर्जरतो वलयितमिव भोगमण्डलमप्रतिरूपमन्तरीपम् ।
[commentary]
स्स्थमुपद्वीपं ददृशुरित्याह । अपश्यन्निति ॥ तस्य क्षीरसमुद्रस्य मध्यतः मध्येऽपि । सार्वविभक्तिकस्तसिः । किञ्चिदल्पं अन्तः कुक्षिदेशे, निमग्नः, पुराणः पुरातनः, अनादिरिति यावत् । 'पुराणप्रतनप्रत्नपुरातनचिरन्तनाः' इत्यमरः । यः भूदारः वराहः 'दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि' इत्यमरः । तस्य दंष्ट्रादण्डः दंष्ट्रैव दण्डः तेन क्षोभितः क्षोभं प्राप्तः यः पयसां क्षीराणां पूरः प्रवाहः तस्मात् समुद्धृतं सम्यगुत्क्षिप्तं नवनीतस्य नवोद्धृतम्य पिण्डमिव । 'नवनीतं नवोद्धृतम्'
इत्यमरः । अभितस्सर्वतः, चलताम्, उच्छृङ्खलानां निर्निरोधानां तिमि
N - 20