This page has not been fully proofread.

द्वितीयाश्वासः
 
9
 
अपश्यन्नपि मध्यतस्तस्य किञ्चिदन्तर्निमनपुराणभूदारदंष्ट्रा-
दण्डक्षोभितपयःपूरसमुद्भुतमिव नवनीतपिण्डम् अभितश्चल दुच्छृङ्खलति-
मितिमिङ्गिलकुलवालविलोडनोद्भुत मारुतोद्धृतपुञ्जीकृतमिव फेनमण्ड-
लम्, एकतः प्रतिपर्वनिर्मुच्यमानपङ्कजनाभशयनोरगनिर्मोकराशिमिव,
कालपरिपाकलब्धमृद्भावनिर्मलं नीवीबन्धमिव वसुन्धरादुकूलस्य,
कल्पान्तरीयमन्दरवेष्टनक्लेशजनितया मूर्च्छया पतितस्य वासुकेर्जरतो
वलयितमिव भोगमण्डलमप्रतिरूपमन्तरीपम् ।
 
१५३
 
स्स्थमुपद्वीपं दहशुरित्याह । अपश्यन्निति ॥ तस्य क्षीरसमुदस्य मध्यतः
मध्येऽपि । सार्वविभक्तिकस्तसिः । किञ्चिदल्पं अन्तः कुक्षिदेशे, निमनः, पुराण:
पुरातनः, अनादिरिति यावत् । 'पुराणप्रतनप्रत्नपुरातनचिरन्तनाः' इत्यमरः । यः
भूदारः वराहः 'दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ' इत्यमरः । तस्य
दंष्ट्रादण्ड: दंष्ट्रैव दण्ड: तेन क्षोभितः क्षोभं प्राप्तः यः पयसां क्षीराणां पूर: प्रवाहः
तस्मात् समुद्धृतं सम्यगुत्क्षिप्तं नवनीतस्य नवोद्धृतम्य पिण्डमिव । 'नवनीतं नवोद्धृतम्'
इत्यमरः । अभितस्सर्वतः, चलताम्, उच्छृङ्खलानां निर्निरोधानां तिमि तिमिङ्गिलाख्य-
मत्स्यानां वालानां पुच्छानां विलोडनेन प्रतिघातलक्षणमन्थनेन उद्भूतः उत्पन्न: यो
मारुतो वायुः तेन उद्धृतानाम् उत्थापितानां फेनानां डिण्डीराणां मण्डलं समूह मिव
स्थितम् । एकत: एकदेशे प्रतिपत्र पर्वणि पर्वणि । वीप्सायामव्ययीभावः ।
निर्मुच्यमानः विसृज्यमानः पङ्कजनाभस्य पद्मनाभस्य शयनोरगः मञ्चस्थानीयसर्पः ।
'शयनं मञ्चपर्यङ्कपल्यङ्काः' इत्यमरः । तस्य निर्मोकानां 'कञ्चुकानाम् । 'समौ कञ्चु-
कनिर्मोकौ' इत्यमरः । राशि पुञ्जमित्र कालेन य: परिपाक: परिणामः तेन
लब्ध: प्राप्तो मृद्भावः मृत्तिकात्वं यस्य स तथाभूतश्चासौ निर्मलश्चेति कर्मधारयः ।
तं, वसुन्धरायाः भूदेव्याः दुकूलस्य क्षौमस्य । 'क्षौमं दुकूलं स्यात्' इत्यमरः ।
नीवीरूपं बन्धं ग्रन्थिमिव । 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च '
इत्यमरः । कल्पान्तरीयेण पूर्वकल्पसम्बन्धिना मन्दरस्याद्रेः, वेष्टनेन यः क्लेश:
खेद: तेन जनितया उत्पादितया मूर्च्छया अवस्था विशेषेण पतितस्य जरतो जरा-
विशिष्टस्य वासुके: वासुकिसर्पस्य वलयितं सञ्जातवलयं भोगस्य कायस्य मण्डलं
वलयमिव स्थितम् । अप्रतिरूपं असदृशं अन्तरीपं वार्यन्तस्तटप्रदेशम् । 'द्वीपोऽ-
स्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्' इत्यमरः । अपश्यन् ददृशुः । 'दृशिर् प्रेक्षणे'
 
N - 20