2023-09-13 05:32:34 by Bharadwajraki
This page has been fully proofread twice.
अपि च ।
स्वाद्या यत्र सुधैव, यस्य जठरे साक्षात्स धन्वन्तरिः
शेते यत्र समस्तरोगशमनो नाम्नैव देवोऽच्युतः ।
तस्मिन् दुग्धनिधावपि स्पृहयते नैव स्थिरामासिकां
अन्तर्लीनहलाहलोष्मचकितो नाथः स्वयं पाथसाम् ॥ २४ ॥
[commentary]
विस्मापयितुं विस्मयं प्रापयितुं यः क्षीरार्णवः तरङ्गाणां वलयैर्मण्डलैः असङ्ख्यान् असङ्ख्येयानित्यर्थः । घोषान् आभीरग्रामान् । अन्यत्र घोषान् शब्दान् सृजन्सृष्टिं कुर्वन् सन् । आभूभूतलं भुवमारभ्य [^१]भूतलात्मकपाताळलोकपर्यन्तं सम्भृतेन सम्पूरितेन पयसा क्षीरेणैव । 'पयः क्षीरं पयोऽम्बु च' इत्यमरः । आवृत्य आवरणं कृत्वा । अवतिष्ठते । 'समवप्रविभ्यस्स्थः' (१.३.२२) इत्यात्मनेपदम् । ॥ अपि चेति ॥ यत्र क्षीरार्णवे सुधा अमृतमेव स्वाद्या आस्वादनार्हा यस्य अर्णवस्य
जठरे कुक्षौ साक्षात् प्रत्यक्षम् । 'साक्षात्प्रत्यक्षतुल्ययोः' इत्यमरः । धन्वन्तरिः समस्तौषधनिधिः निवसतीति शेषः । यत्रार्णवे नाम्ना नामोच्चारणेन समस्तानां सर्वेषां रोगाणामामयानां शमनो नाशकः । 'अच्युतानन्तगोविन्दनामोच्चारणभेषजाात् । नश्यन्ति सकला रोगाः --’ इति शास्त्रादिति भावः । नाम्ना सर्वरोगशमनत्वरूपविशेषणं धन्वन्तरिसाधारणमपि भवितुमर्हति । 'धन्वन्तरिं गरुत्मन्तं फणिराजं च कौस्तुभम् । स्मृत्वा नीरोगतां यायान्मानवः क्षणमात्रतः ॥' इति वचनादिति बोध्यम् । अच्युतः शार्ङ्गधन्वा देवः नारायणः शेते स्वपिति । तस्मिन् तथाविधे दुग्धनिधौ क्षीरसमुद्रेऽपि पाथसां अपाम् । 'कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्' इत्यमरः । नाथः पतिर्वरुणः । 'यादसां पतिरप्पतिः' इत्यमरः । स्वयं स्वामित्यर्थः । अन्तः कुक्षिप्रदेशे लीनः अदृश्यस्सन् वर्तमानो यः हलाहलः विषराजः । 'कालकूटो हलाहलः' इत्यमरः । तस्य ऊष्मणा उष्णांशेन चकितः भीतस्सन् स्थिराम् अचञ्चलाम् आसिकां स्थितिं न स्पृहयते नेच्छति । सन्तापभूयिष्ठदेशे कस्य वा वासोऽनुमत इति भावः । क्षीरार्णवान्त-
[^१] भुवमारभ्य इति आशब्दः आरम्भपरः, भूतलम्=पाताललोकः, तत्राङ् अभिविध्यर्थकः इति भावः ॥ उभयत्राशब्दान्वयः ॥ अतल, वितल, सुतल, रसातल, तलातल, महातल, पाताल इति -- अधोलोकसप्तके पातालः अन्त्यः ॥