2023-06-05 16:40:05 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
१५२
अपि च ।
स्वाद्या यत्र सुधैव, यस्य जठरे साक्षात्स धन्वन्तरिः
शेते यत्र समस्तरोगशमनो नाम्नैव देवोऽच्युतः ।
तस्मिन् दुग्धनिधावपि स्पृहयते नैव स्थिरामासिकां
अन्तलींनहलाहलोष्मचकितो नाथः स्वयं पाथसाम् ॥२४
विस्मापयितुं विस्मयं प्रापयितुं यः क्षीरार्णवः तरङ्गाणां वलयैर्मण्डलैः असङ्ख्यान्
असङ्ख्येयानित्यर्थ: । घोषान् आभीरग्रामान् । अन्यत्र घोषान् शब्दान् सृजन्
सृष्टिं कुर्वन् सन् । आभूभूतलं भुवमारभ्य 'भूतलात्मकपाताळलोकपर्यन्तं सम्भृ-
तेन सम्पूरितेन पयसा क्षीरेणैव । 'पयः क्षीरं पयोऽम्बु च इत्यमरः । आवृत्य
आवरणं कृत्वा । अवतिष्ठते । 'समवप्रविभ्यस्स्थ: (1-3-22 ) इत्यात्मनेपदम् ।
॥ अपि चेति ॥ यत्र क्षीराणवे सुधा अमृतमेव स्वाद्या आस्वादनार्हा यस्य अर्णवस्य
जठरे कुक्षौ साक्षात् प्रत्यक्षम् । 'साक्षात्प्रत्यक्षतुल्ययोः' इत्यमरः । धन्वन्तरिः
समस्तौषधनिधिः निवसतीति शेषः । यत्रार्णवे नाम्ना नामोच्चारणेन समस्तानां
सर्वेषां रोगाणामामयानां शमनो नाशक: । 'अच्युतानन्तगोविन्दनामोच्चारण
भेषजाात् । नश्यन्ति सकला रोगा:- इति शास्त्रादिति भावः । नाम्ना
सर्वरोगशमनत्वरूपविशेषणं धन्वन्तरिसाधारणमपि भवितुमर्हति । 'धन्वन्तरिं
गरुत्मन्तं फणिराजं च कौस्तुभम् । स्मृत्वा नीरोगतां यायान्मानवः क्षणमात्रतः ॥'
इति वचनादिति बोध्यम् । अच्युतः शार्ङ्गधन्वा देवः नारायणः शेते स्वपिति ।
तस्मिन् तथाविधे दुग्धनिधौ क्षीरसमुद्रेऽपि पाथसां अपाम् । 'कबन्धमुदकं
पाथः पुष्करं सर्वतोमुखम्' इत्यमरः । नाथः पतिर्वरुण: । 'यादसां पतिरप्पतिः'
इत्यमरः । स्वयं स्वामित्यर्थः । अन्तः कुक्षिप्रदेशे लीनः अदृश्यस्सन् वर्तमानो
यः हलाहल: विषराजः । 'कालकूटो हलाहल : ' इत्यमरः । तस्य ऊष्मणा
उष्णांशेन चकित: भीतस्सन् स्थिराम् अचञ्चलाम् आसिकां स्थितिं न स्पृहयते
नेच्छति । सन्तापभूयिष्ठदेशे कस्य वा वासोऽनुमत इति भावः । क्षीराणवान्त-
1. भुवमारभ्य इति आशब्द: आरम्भपरः भूतलम् = पाताललोकः तत्राङ्
अभिविष्यर्थकः इति भावः ॥ उभयत्राशब्दान्वयः ॥ अतल, वितल, सुतल, रसातल,
तलातल, महातल, पाताल इति - अधोलोकसप्तके पाताल: अन्त्यः ॥