This page has been fully proofread twice.

कुट्टिममिव स्फाटिकशिलाचितम्, अनास्पदं कविगिराम्, आश्चर्यमाश्चर्याणाम्, आर्तिहरं चक्षुषोः आनन्दमन्तःकरणस्य, दुरासदमनाराधितनारायणचरणारविन्दानां दुग्धोदं नाम रत्नाकरम् ।
 
घोषे क्वापि पुरा पयः कियदपि स्तैन्येन दैन्येन वा
लब्धुं योऽवहदीश्वरोऽपि जगतां जन्माधमं मानुषम् ।
तं विस्मापयितुं तरङ्गवलयैर्घोषानसङ्ख्यान् सृजन्
आभूभूतलसम्भृतेन पयसैवावृत्य यो वर्तते ॥ २३ ॥
 
[commentary]
 
कुम्भिनी क्षमा' इत्यमरः । क्षौमं दुकूलरूपम् अवकुण्ठनं बहिराच्छादनम् । 'क्षौमं दुकूलं स्यात्' इत्यमरः । स्फाटिकशिलाभिः स्फटिकमणिभिः चितं खचितं पद्मनाभस्य नारायणस्य शयनागारम् अन्तःपुरम् । 'स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम्' इत्यमरः । तस्य पर्यन्तः परिसरदेशः । 'पर्यन्तभूः परिसरः' इत्यमरः । तस्य कुट्टिममिव निबद्धभुवमिव । 'कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः । कवीनां पण्डितानां या गिरः तासां 'सङ्ख्यावान् पण्डितः कविः' इत्यमरः । अनास्पदम् अविषयम् आश्चर्याणां विस्मयकराणां ब्रह्मलोकादीनाम् आश्चर्यं विस्मयकरम् । 'विस्मयोऽद्भुतमाश्चर्यम्' इत्यमरः । चक्षुषोः द्रष्टॄणामिति शेषः । आर्तिं पीडां हरति नाशयतीत्यार्तिहरम् । 'आर्तिः पीडा धनुःकोट्योः' इत्यमरः । अन्तःकरणस्य हृदयस्य आनन्दम् आनन्दजनकम् । अनाराधिते अपूजिते गोविन्दस्य भगवतश्चरणारविन्दे पादकमले यैस्तथाविधैः दुरासदं [^१]दुष्प्रापम् । दुग्धमुदकं यस्य सः
दुग्धोदः तम् । 'उत्तरपदस्य च' (७.३.१०) इत्युदकशब्दस्य उदादेशः । नाम प्रसिद्धं रत्नाकरं समुद्रमद्राक्षुः ददृशुः । क्षीरसमुद्रमेव वर्णयति द्वाभ्याम् ॥ घोष इति ॥ जगतां लोकानाम् ईश्वरोऽपि अधिपतिरपि । 'ईश्वरः पतिरीशिता' इत्यमरः । यः भगवान्नारायणः स्तैन्येन चौर्येण दैन्येन याचनेन वा कियत् यत्किश्चित् पयः क्षीरं लब्धं प्राप्तमपि पुरा पूर्वकाले कापि कुत्रापि घोषे आभीरग्रामे । 'घोष
आभीरपल्ली स्यात्' इत्यमरः । अधमम् अप्रशस्तम् । 'रेफयाप्यावमाधमाः' इत्यमरः । मानुषं मनुष्यस्वरूपं जन्म आविर्भावम् अवहत् दधार । तं नारायणं
 
[^१] तत्क्रतुन्यायेन नारायणाराधनमेव तदावास्रदुग्धोदधिप्राप्तिसाधनम् । "तं यथा यथोपासते तदेव भवति" -- इति न्यायात्, भ्रमरकीटन्यायश्च प्रसिद्धः ॥