2023-06-05 16:40:05 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः
कुट्टिममिव स्फाटिकशिलाचितम्, अनास्पदं कविगिराम्, आश्चर्यमाश्चर्या -
णाम्, आर्तिहरं चक्षुषोः आनन्द मन्तःकरणस्य, दुरासदमनाराधित -
नारायणचरणारविन्दानां दुग्धोद नाम रत्नाकरम् ।
घोषे कापि पुरा पयः कियदपि स्तैन्येन दैन्येन वा
लब्धुं योऽवहदीश्वरोऽपि जगतां जन्माधमं मानुषम् ।
तं विस्मापयितुं तरङ्गवलयैर्घोषानसङ्ख्यान् सृजन्
आभूभूतलसम्भृतेन पयसैवावृत्य यो वर्तते ॥ २३ ॥
कुम्भिनी क्षमा' इत्यमरः । क्षौमं दुकूलरूपम् अवकुण्ठनं बहिराच्छादनम्। 'क्षौमं
दुकूलं स्यात्' इत्यमरः । स्फाटिकशिलाभिः स्फटिकमणिभिः चितं खचितं पद्मना-
भस्य नारायणस्य शयनागारम् अन्तःपुरम् । 'स्त्र्यगारं भूभुजामन्तः पुरं स्यादवरोध-
नम्' इत्यमरः । तस्य पर्यन्तः परिसरदेश: । 'पर्यन्तभूः परिसर : ' इत्यमरः ।
तस्य कुट्टिममिव निबद्धभुवमिव । 'कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः । कवीनां
पण्डितानां या गिरः तासां 'सङ्ख्यावान् पण्डितः कविः' इत्यमरः । अनास्पदम्
अविषयम् आश्चर्याणां विस्मयकराणां ब्रह्मलोकादीनाम् आश्चर्य विस्मयकरम् ।
'विस्मयोऽद्भुतमाश्चर्यम् ' इत्यमरः । चक्षुषोः द्रष्टृणामिति शेषः । आर्ति पीडां
हरति नाशयतीत्यार्तिहरम् । 'आर्ति: पीडा धनु: कोटयो: ' इत्यमरः । अन्त:-
करणस्य हृदयस्य आनन्दम् आनन्दजनकम् । अनाराधिते अपूजिते गोविन्दस्य
भगवतश्चरणारविन्दे पादकमले यैस्तथाविधैः दुरासदं 'दुष्प्रापम् । दुग्धमुदकं यस्य सः
दुग्धोदः तम्। 'उत्तरपदस्य च' (7-3-10) इत्युदकशब्दस्य उदादेशः । नाम प्रसिद्धं
रत्नाकरं समुद्रमद्राक्षुः ददृशुः । क्षीरसमुद्रमेव वर्णयति द्वाभ्याम् ॥ घोष इति ॥
जगतां लोकानाम् ईश्वरोऽपि अधिपतिरपि । 'ईश्वरः पतिरीशिता' इत्यमरः । यः
भगवान्नारायणः स्तैन्येन चौर्येण दैन्येन याचनेन वा कियत् यत्किश्चित् पयः
क्षीरं लब्धं प्राप्तमपि पुरा पूर्वकाले कापि कुत्रापि घोषे आभीरग्रामे । 'घोष
आभीरपल्ली स्यात्' इत्यमरः । अधमम् अप्रशस्तम् । 'रेफयाप्यावमाधमाः'
इत्यमरः । मानुषं मनुष्यस्वरूपं जन्म आविर्भावम् अवहत् दधार । तं नारायणं
-
" तं
1. तत्क्रतुन्यायेन नारायणाराधनमेव तदावा सदुग्धोदधिप्राप्तिसाधनम् ।
यथा यथोपासते तदेव भवति " - इति न्यायात्, भ्रमरकीटन्यायश्च प्रसिद्धः ॥