This page has been fully proofread twice.

भीषणम्, समष्टिमिव क्षीरसर्गस्य, समवायमिव नैर्मल्यस्य, चन्द्रतारकादिनिर्मलवस्तुवर्गनिर्माणकौतुकिना विधिना विलाप्य निषिक्तमिव भुवि रजताचलम्, क्षौमात्रकुण्ठनमिव क्षमायाः, पद्मनाभशयनागारपर्यन्त-
 
[commentary]
 
तदीयत्वेन वा इदमित्थमिति निर्वक्तुमशक्याः, ये गुणास्सत्त्वादयः तेषां प्रपञ्चो यस्मिन् तत् । यद्वा, अनिर्वचनीयः इदमित्थमिति वक्तुमशक्यः गुणानां सत्त्वादीनां प्रपञ्चः स्तोमः यस्य तत् । 'प्रपञ्चो विस्तृतौ स्तोमे' इति नानार्थः । समुद्रपक्षे अनिर्वचनीयः गणयितुमशक्यः गुणानां नैर्मल्यधावळ्यमाधुर्यादीनां प्रपञ्चस्समूहो यस्य तथाभूतम् । कैलासस्य रजताद्रेः शृङ्गं शिखरमिव । 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । शैवानां शिवभक्तानां लक्षणानि चिह्नानि 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । तैः लक्षिता युक्ताः ये द्विजाः विप्राः तेषां षण्डस्समूहः । 'षण्डस्तु क्लीबसङ्घयोः' इति विश्वः । तेन मण्डितम् अलङ्कृतम् । समुद्रपक्षे शैवलं शैवालं तस्मिन् क्षणेन[^१] निर्व्यापारस्थित्या । 'निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः' इत्यमरः। आलक्षिता अवलोकिता ये द्विजाः पक्षिणः । 'दन्तविप्राण्डजाः द्विजाः' इत्यमरः । तैर्मण्डितम् अलङ्कृतं निदाघभास्करं ग्रैष्मकालिकसूर्यमिव नितान्तम् अत्यन्तम्, उत्तरम् उत्तरायणमार्गं, गत्वा प्राप्य अतिभीषणं भयङ्करमिति पदभङ्गमाश्रित्य सूर्यपक्षे विशेषणं योजनीयम् । समुद्रपक्षे तु उत्कृष्टास्तरङ्गा यस्मिन् तस्य भावः उत्तरङ्गत्वं तेनातिभीषणं भयङ्करम् । भुज्यत इति भोग इतिवत् सृज्यत इति सर्गः, तथा च सर्गशब्दस्य सृज्यमित्यर्थः । क्षीरं च तत् सर्गश्चेति कर्मधारयः । तस्य क्षीरसर्गस्य क्षीररूपसृज्यवस्तुन इत्यर्थः । समष्टिं सम्पूर्वकस्य 'अशू व्याप्तौ' इति धातोः 'स्त्रियां क्तिन्' (३.३.९४) इति क्तिन्प्रत्ययः । सोपसर्गस्य धातोरनेकार्थत्वात् । पूगमिवेत्यर्थः । अथवा, क्षीरसर्गस्य क्षीरनिर्माणस्य समष्टिं सङ्घीभूय भवनमिव नैर्मल्यस्य निर्मलत्वस्य समवायं पुञ्जमिव । चन्द्रतारकादीनि यानि निर्मलवस्तूनि तेषां
निर्माणे कौतुकिना कुतूहलिना विधिना विधात्रा विलाप्य पुटे यथा द्रुतं स्यात्तथा पक्त्वेत्यर्थः । निषिक्तं उत्सृष्टं रजताचलमिव स्थितं क्षमाया भूदेव्याः । 'गौरिळा
 
[^१] न केवलम्, क्षणशब्दः, लोककाव्यप्रसिद्ध्या कालविशेषोत्सवमात्रवाचकः, अपि तु निर्व्यापारस्थितिपरोऽपीत्येतत् -- पैतृककर्मसु "विश्वेदेवार्थे भवता क्षणः कर्तव्यः" इत्युच्चार्यमाणप्रार्थनासु स्फुटम् । न हि तत्र क्षणकालमात्रं प्रसादः अलम्, बहुकालं भोजनादेः कर्तव्यत्वात्, नापि उत्सवार्थः घटते ॥