2023-06-05 16:40:06 by ambuda-bot
This page has not been fully proofread.
१५०
नीलकण्ठविजये सव्याख्याने
भीषणम्, समष्टिमिव क्षीरसर्गस्य, समवायमिव नैर्मल्यस्य, चन्द्रतारका-
दिनिर्मलवस्तुवर्गनिर्माणकौतुकिना विधिना विलाप्य निषिक्तमिव भुवि
रजताचलम् क्षौमात्रकुण्ठनमिव क्षमायाः, पद्मनाभशयनागारपर्यन्त-
,
तदीयत्वेन वा इदमित्थमिति निर्वक्तुमशक्याः, ये गुणास्सत्त्वादयः तेषां प्रपञ्चो
यस्मिन् तत् । यद्वा, अनिर्वचनीयः इदमित्थमिति वक्तुमशक्य: गुणानां सत्त्वादीनां
प्रपञ्चः स्तोमः यस्य तत् । 'प्रपञ्चो विस्तृतौ स्तोमे' इति नानार्थः । समुद्रपक्षे
अनिर्वचनीयः गणयितुमशक्यः गुणानां नैर्मल्यधावळयमाधुर्यादीनां प्रपञ्चस्समूहो
यस्य तथाभूतम् । कैलासस्य रजताद्रेः शृङ्गं शिखरमिव । 'कूटोऽस्त्री शिखरं शृङ्गम्'
इत्यमरः । शैवानां शिवभक्तानां लक्षणानि चिह्नानि 'चिह्नं लक्ष्म च लक्षणम्'
इत्यमरः । तैः लक्षिता युक्ताः ये द्विजाः विप्राः तेषां षण्डस्समूहः । 'घण्डस्तु
क्लीबसङ्घयोः' इति विश्वः । तेन मण्डितम् अलङ्कृतम् । समुद्रपक्षे शैवलं शैवालं
तस्मिन् क्षणेन' निर्व्यापारस्थित्या । 'निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षण: '
इत्यमरः। आलक्षिता अवलोकिता ये द्विजाः पक्षिण: । 'दन्त विप्राण्डजाः द्विजा: '
इत्यमरः । तैर्मण्डितम् अलङ्कृतं निदाघभास्करं ग्रैष्मकालिकसूर्यमिव नितान्तम्
अत्यन्तम्, उत्तरम् उत्तरायणमार्ग, गत्वा प्राप्य अतिभीषणं भयङ्करमिति पदभङ्गमा-
श्रित्य सूर्यपक्षे विशेषणं योजनीयम् । समुद्रपक्षे तु उत्कृष्टास्तरङ्गा यस्मिन् तस्य
भाव: उत्तरङ्गत्वं तेनातिभीषणं भयङ्करम् । भुज्यत इति भोग इतिवत् सृज्यत इति
सर्गः, तथा च सर्गशब्दस्य सृज्यमित्यर्थः । क्षीरं च तत् सर्गश्चेति कर्मधारयः । तस्य
क्षीरसर्गस्य क्षीररूपसृज्यवस्तुन इत्यर्थः । समष्टिं सम्पूर्वकस्य 'अशू व्याप्तौ' इति
धातोः 'स्त्रियां क्तिन्' (3-3-94) इति क्तिन् प्रत्ययः । सोपसर्गस्य धातोरनेकार्थ-
त्वात् । पूगमिवेत्यर्थः । अथवा, क्षीरसर्गस्य क्षीरनिर्माणस्य समष्टि सङ्घीभूय भवनमिव
नैर्मल्यस्य निर्मलत्वस्य समवायं पुञ्जमिव । चन्द्रतारकादीनि यानि निर्मलवस्तूनि तेषां
निर्माणे कौतुकिना कुतूहलिना विविना विधात्रा विलाप्य पुढे यथा द्रुतं स्यात्तथा
पक्त्वेत्यर्थः । निषिक्तं उत्सृष्ट रजताचलमिव स्थितं क्षमाया भूदेव्याः । 'गौरिळा
19
1. न केवलम्, क्षणशब्द:, लोककाव्यप्रसिद्धया कालविशेषोत्सवमात्रवाचकः,
अपि तु निर्व्यापार स्थितिपरोऽपीत्येतत् – पैतृक कर्मसु "विश्वेदेवार्थे भवता क्षणः कर्तव्य: "
इत्युच्चार्यमाणप्रार्थनासु स्फुटम् । न हि तत्र क्षणकालमात्रं प्रसादः अलम्, बहुकाल
भोजनादे: कर्तव्यत्वात्, नापि उत्सवार्थः घटते ॥