This page has been fully proofread twice.

गर्भस्थानेकमठराजिविराजितम्, पाणिनीयसूत्रमिव परस्मैपदप्रतिपादकम्, आत्मतत्त्वमिवानिर्वचनीयगुणप्रपञ्चम्, कैलासशिखरमिव शैवलक्षणलक्षितद्विजषण्डमण्डितम्, निदाघभास्करमिव नितान्तमुत्तरङ्गत्वाति-
 
[commentary]
 
कटकराशिना मकरराशिना मीनराशिना च करम्बितं व्याप्तं समुद्रस्तु कर्कटेन कुळीरनामकजलचरविशेषेण । 'स्यात्कुळीरः कर्कटकः' इत्यमरः । मकरैः ग्राहैः । 'प्रकरः कीर्णपुष्पादौ संहतौ मकरस्त्विह । निधौ यादसि राशौ च' इति नानार्थरत्नमाला । मीनैः मत्स्यैश्च करम्बितं व्याप्तं कर्कटमकरमीनकरम्बितत्वस्योभयत्राविशिष्टत्वात्[^१] साम्यमिति भावः । गङ्गाया भागीरथ्याः तीर्थं जलमिव । 'जलावतारो गुरुयोन्युपायशस्त्राणि यज्ञो मुनिजुष्टतोयम् । मन्त्र्यादयोऽष्टादशपुण्यभूमिः पात्रं जलं स्त्री कुसुमं च तीर्थम्' इति नानाथरत्नमाला । गर्भे कुक्षौ तिष्ठन्तीति गर्भस्थाः । 'कुक्षिभ्रूणार्भका गर्भा' इत्यमरः । तथाविधा ये अनेके बहवो मठाः
यतिच्छात्रादिस्थानानि । 'मठश्छात्रादिनिलयः' इत्यमरः । तेषां राजिभिः पङ्क्तिभिः 'आवळिः पङ्क्तिश्रेणीरेखास्तु राजयः' इत्यमरः । विराजितं प्रकाशितम् । समुद्रपक्षे गर्भस्थाने कुक्षिप्रदेशे कमठानां कूर्माणां राजिभिः विराजितम् । 'कूर्मे कमठकच्छपौ' इत्यमरः । गर्भस्थाने कमठराजिविराजितत्वस्योभयत्र सत्त्वात्साम्यमिति भावः । [^२]अभङ्गपक्षे श्लेषमहिम्ना गर्भपदस्य तीरलक्षणाङ्गीकारेण चोक्तदिशा गर्भेत्यादिविशेषणं गङ्गाजलसाधारणमिति भावः । पाणिनेः व्याकरणशास्त्रप्रणेत्राचार्यस्य । सूत्रमिव 'शेषात् कर्तरि परस्मैपदम्' (१.३.७८) इत्याकारकपरस्मैपदविधायकविधिसूत्रमिवेत्यर्थः । परस्मैपदस्य परस्मैपदसंज्ञकतिबादिप्रत्ययजालस्य प्रतिपादकं प्रतिपादयितृ बोधकमिति यावत् । समुद्रपक्षे परस्मै परमात्मने । 'परोऽरिपरमात्मनोः' इति विश्वः । पदस्य स्थानस्य, 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । प्रतिपादकं दातारं 'विश्राणनं वितरणं स्पर्शनम् प्रतिपादनम्' इत्यमरः । अत्र सूत्रपक्षे परस्मैपदेत्यत्रालुक्समासः । अन्यत्र व्यास इति विवेकः ।
आत्मनस्तत्त्वं वास्तवरूपमिव, अनिर्वचनीया सावयवत्वेन निरवयवत्वेन एतदीयत्वेन
 
[^१] सर्वमिदं श्लिष्टविशेषणं साम्यात् अर्थभेदेऽपि साधारणधर्मैक्यमादाय उपमाभेदरूपमिति वेदितव्यम् ॥ "सकलकलं पुरमेतत् सम्प्रति शीतांशुबिम्बमिव" -- इत्यादौ आलङ्कारिकैस्तथाभ्युगमात् ॥
 
[^२] श्लेषश्च द्विविधः, समङ्गः अभङ्गश्चेति ॥ अर्थान्तरे अन्यथाच्छेदे सभङ्गः, तथाच्छेदेऽप्यर्थभेदमात्रेऽभङ्गः इति विवेकः ॥