This page has not been fully proofread.

द्वितीयाश्वासः
 
गर्भस्थानेकमठराजिविराजितम्, पाणिनीयसूत्रमिव परस्मैपदप्रतिपाद-
कम्, आत्मतत्त्वमिवानिर्वचनीयगुणप्रपञ्चम्, कैलासशिखरमिव-शैवल-

क्षणलक्षितद्विजषण्डमण्डितम्, निदाघभास्करमिव नितान्तमुत्तरङ्गत्वाति-

कटकराशिना मकरराशिना मीनराशिना च करम्भितं व्याप्तं समुद्रस्तु कर्कटेन

कुळीरनामकजलचरविशेषेण । 'स्यात्कुळीर: कर्कटकः' इत्यमरः । मकरैः ग्राहैः ।

' प्रकर: कीर्ण पुष्पादौ संहतौ मकरस्त्विह । निधौ यादसि राशौ च' इति नानार्थ-

रत्नमाला । मीनैः मत्स्यैश्च करम्बितं व्याप्तं कर्कटमकरमीनकरम्बितत्वस्योभयत्रा-

विशिष्टत्वात्' साम्यमिति भावः । गङ्गाया भागीरथ्याः तीर्थं जलमिव । 'जलावतारो

गुरुयोन्युपायशस्त्राणि यज्ञो मुनिजुष्टतोयम् । मन्त्र्यादयोऽष्टादशपुण्यभूमिः पात्र

जलं स्त्री कुसुमं च तीर्थम्' इति नानाथरत्नमाला । गर्भे कुक्षौ तिष्ठन्तीति

गर्भस्था: । 'कुक्षिभ्रणार्मका गर्भा' इत्यमरः । तथाविधा ये अनेके बहवो मठा:

यतिच्छात्रादिस्थानानि । 'मठश्छात्रादिनिलयः' इत्यमरः । तेषां राजिभिः पङ्क्तिभिः

'आवळि: पङ्क्तिश्रेणीरेखास्तु राजयः' इत्यमरः । विराजितं प्रकाशितम् ।

समुद्रपक्षे गर्भस्थाने कुक्षिप्रदेशे कमठानां कूर्माणां राजिभि: विराजितम् । 'कूर्मे

कमठकच्छपौ' इत्यमरः । गर्भस्थाने कमठराजिविराजितत्वस्योभयत्र सत्त्वात्साम्य-

मिति भावः । 2 अभङ्गपक्षे श्लेषमहिना गर्भपदस्य तीरलक्षणाङ्गीकारेण चोक्तदिशा

गर्भेत्यादिविशेषणं गङ्गाजलसाधारणमिति भावः । पाणिनेः व्याकरणशास्त्रप्रणेत्रा-

चार्यस्य । सूत्रमिव 'शेषात् कर्तरि परस्मैपदम्' (1-3-78) इत्याकारकपरस्मैपद-

विधायकविधिसूत्रमिवेत्यर्थ: । परस्मैपदस्य परस्मैपदसंज्ञकतिबादिप्रत्ययजालस्य प्रति-

पादकं प्रतिपादयितृ बोधकमिति यावत् । समुद्रपक्षे परस्मै परमात्मने । 'परोऽ-

रिपरमात्मनोः' इति विश्वः । पदस्य स्थानस्य, 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रि-

वस्तुषु' इत्यमरः । प्रतिपादकं दातारं 'विश्राणनं वितरणं स्पर्शनम् प्रतिपादनम्'

इत्यमरः। अत्र सूत्रपक्षे परस्मैपदे त्यत्रालुक्समासः । अन्यत्र व्यास इति विवेकः।

आत्मनस्तत्त्वं वास्तवरूपमिव, अनिर्वचनीया सावयवत्वेन निरवयवत्वेन एतदीयत्वेन
 

 
1. सर्वमिदं श्लिष्टविशेषणं साम्यात् अर्थमेदेऽपि साधारणधर्मैक्यमादाय उपमा-

मेदरूपमिति वेदितव्यम् ॥ " सकलकलं पुरमेतत् सम्प्रति शीतांशुबिम्बमिव " – इत्यादौ

आलङ्कारिकैस्तथाभ्युगमात् ॥
 

 
2. श्लेषश्च द्विविधः, समङ्गः अभङ्गश्चेति ॥ अर्थान्तरे अन्यथाच्छेदे सभङ्गः,

तथा च्छे देऽप्यर्थ मेद मात्रेऽभमः इति विवेकः ॥