This page has been fully proofread twice.

[‌^१]तृतीयावतारश्वेततानुचिकीर्षया स्वयमपि श्वेतीभवद्भिरिव भगवतः प्राथमिकावतारजातीयैः क्षीराहारपरिणामनिर्मलैर्मत्स्यकूर्मैः परिकर्मितम्, शार्ङ्गधरं द्रष्टुं समागच्छेदपि जातु चन्द्रशेखर इति सम्भावनया सज्जीकृतैः कैलासैरिव पयस्तरङ्गपरिपूरितैरन्तर्गतैर्गिरिभिरभिशोभितम्, कालचक्रमिव कर्कटमकरमीनकरम्बितम्, गङ्गातीर्थमिव
 
[commentary]
 
इत्यादिसूक्तम् । 'सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्' इत्यमरः । तदेव गोचरः विचारस्थानं, विषयः इति यावत्, यस्य सः क्षीरपदस्य ऊहः तस्मिन्नप्पदस्थाने प्रक्षेपः, अनूहः अप्रक्षेपः तयोर्यो विचारस्तस्य कोलाहलेन घोषेण अभिभूतः तिरस्कृतः, वीचीनां तरङ्गाणां घोषो यस्मिंस्तथाभूतम् । अत्रेदं बोध्यम् -- मन्त्रेषु ऊहो नाम मन्त्रघटकपदस्थाने समुचितपदान्तरस्य प्रक्षेपः । तद्यथेति चेत्, 'अग्नये त्वा जुष्टं निर्वपामि' इति मन्त्रे चतुर्थ्यन्ताग्निपदस्थाने चतुर्थ्यन्तसूर्यपदं प्रक्षिप्य, 'सूर्याय त्वा जुष्टं निर्वपामि' इति पठ्यते । तद्वदघमर्षणसूक्ते 'यदपां क्रूरं यदमेध्यम्' इत्यादौ अपामित्यप्पदस्य स्थाने षष्ठ्यन्तस्य क्षीराणामिति पदस्य ऊहो वा, उत अनूहो वेति । प्रकृतावेवोहः, उत विकृतावेव, अथवा, प्रकृतौ विकृतौ चेत्युभयत्रेति विचारयामासुरिति । तृतीयावतारस्य वराहावतारस्य श्वेतता श्वैत्यं तस्याः अनुचिकीर्षया अनुकरणेच्छया । दशावतारेषु वराहस्य तृतीयत्वादिति भावः । स्वयमपि श्वेतीभवद्भिः शुक्लीभवद्भिः भगवतः नारायणस्य प्राथमिकौ याववतारौ मत्स्यकूर्मलक्षणौ तज्जातीयैः तत्सदृशैः तृतीयवराहापेक्षया उभयोर्मत्स्यकूर्मयोः प्राथमिकत्वादिति भावः । क्षीराहारस्य [‌^२]क्षीराशनस्य परिणामेन परिपाकेन । निर्मलैः मत्स्यकूर्मैः मत्स्यैः कूर्मैश्चेत्यर्थः, परिकर्मितम् अलङ्कृतम् । चन्द्रशेखरः चन्द्रमौलीश्वरः जातु कदाचित् शार्ङ्गधरं शार्ङ्गपाणिं विष्णुं द्रष्टुमपि समागच्छेत् । सम्भावनायां लिङ् । समागतो भवेत् इति सम्भावनया उत्प्रेक्षया आलोचनेनेति यावत् । सज्जीकृतैः सिद्धत्वेन कृतैः कैलासैः रजतपर्वतैरिव स्थितैः पयसां क्षीराणां तरङ्गैः परिपूरितः सिक्तैः, अन्तर्गतैः अन्तःस्थितैः गिरिभिरद्रिभिः उपशोभितम् प्रकाशितम् । कालचक्रमिव काललक्षणचक्रमिव वर्तमानं कालचक्रं तु कर्कटेन
 
[‌^१] "श्वेतवराहकल्पे" -- इति दैनन्दिनसंकल्पे वराहः आद्यः श्वेतवर्णः नाद्यतन इव कृष्ण इति प्रसिद्धम् ॥
 
[‌^२] अन्नमयः, अन्नविकारः देह इति क्षीरान्नात् क्षीरसदृशदेहौ मत्स्यः कूर्मश्चाद्य इति युक्तम् ॥