This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
'
[‌^१]तृतीयावतारश्वेततानुचिकीर्षया स्वयमपि श्वेतीभवद्भिरिव भगवतः
प्राथमिकावतारजातीयैः क्षीराहारपरिणामनिर्मलैर्मत्स्य कूर्मैः परिकर्मि-
तम्, शार्ङ्गधरं द्रष्टुं समागच्छेदपि जातु चन्द्रशेखर इति सम्भा-
वनया सज्जीकृतैः कैलासैरिव पयस्तरङ्ग परिपूरितैरन्तर्गतैर्गिरिभिर-
भिशोभितम्, कालचक्रमिव कर्कटमकरमीनकरम्बितम्, गङ्गातीर्थमिव

 
[commentary]
 
इत्यादिसूक्तम् । 'सर्वेवैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्' इत्यमरः । तदेव
गोचरः विचारस्थानं, विषयः इति यावत्, यस्य सः क्षीरपदस्य ऊहः तस्मिन्न-
प्पदस्थाने प्रक्षेपः, अनूहः अप्रक्षेप:पः तयोर्यो विचारस्तस्य कोलाहलेन घोषेण
अभिभूतः तिरस्कृतः, वीचीनां तरङ्गाणां घोषो यस्मिंस्तथाभूतम् । अत्रेदं बोध्यम् -
- मन्त्रेषु ऊहो नाम मन्त्रघटकपदस्थाने समुचितपदान्तरस्य प्रक्षेपः । तद्यथेति
चेत्, 'अग्नये त्वा जुष्टं निर्वपामि' इति मन्त्रे चतुर्थ्यन्तामिग्निपदस्थाने चतुर्थ्यन्तसूर्यपदं
प्रक्षिप्य, 'सूर्याय त्वा जुष्टं निर्वपामि' इति पठ्यते । तद्वदघमर्षणसूक्ते 'यदपां
क्रूरं यदमेध्यम्' इत्यादौ अपामित्यपूप्पदस्य स्थाने षष्ठ्यन्तस्य क्षीराणामिति पदस्य
ऊहो वा, उत अनूहो वेति । प्रकृतावेवोहः, उत विकृतावेव, अथवा, प्रकृतौ
विकृतौ चेत्युयत्रेति विचारयामासुरिति । तृतीयावतारस्य वराहावतारस्य श्वेतता
चै
श्वैत्यं तस्याः अनुचिकीर्षया अनुकरणेच्छया । दशावतारेषु वराहस्य तृतीयत्वादिति
भावः । स्वयमपि श्वेतीभवद्भिः शुक्लीभवद्भिः भगवतः नारायणस्य प्राथमिकौ
याववतारौ मत्स्यकूर्मलक्षणौ तज्जातीयैः तत्सदृशैः तृतीयवराहापेक्षया उभयोर्मत्स्य
कूर्मयोः प्राथमिकत्वादिति भावः । क्षीराहारस्य [‌^२]क्षीराशनस्य परिणामेन परि-
पाकेन । निर्मलैः मत्स्यकूर्मैः मत्स्यैः कूर्मैश्चेत्यर्थः, परिकर्मितम् अलङ्कृतम् । चन्द्र-
शेखरः चन्द्रमौलीश्वरः जातु कदाचित् शार्ङ्गधरं शार्ङ्गपाणिणिं विष्णुं द्रष्टुमपि समा-
गच्छेत् । सम्भावनायां लिङ् । समागतो भवेत् इति सम्भावनया उत्प्रेक्षया आलोच-
नेनेति यावत् । सज्जीकृतैः सिद्धत्वेन कृतैः कैलासै:सैः रजतपर्वतैरिव स्थितःतैः पयसां
क्षीराणां तरङ्गैः परिपूरित:तः सिक्तैः, अन्तर्गतैः अन्तः स्थितैः गिरिभिरद्रिभिः उपशो-
भितम् प्रकाशितम् । कालचक्रमिव काललक्षणचक्रमिव वर्तमानं कालचक्रं तु कर्कटेन
 

 

 
[‌^१]
"
 
१४८
 
1. "
श्वेतवराहकल्पे " -- इति दैनन्दिनसंकल्पे वराह:हः आद्य :यः श्वेतवर्णः नाद्यतन
इव कृष्ण इति प्रसिद्धम् ॥
 
2.

 
[‌^२]
अन्नमयः, अन्नविकार:रः देह इति क्षीराजान्नात् क्षीरसदृश देहौ मत्स्य:यः कूर्मवाद्य
श्चाद्य इति युक्तम् ॥