This page has been fully proofread once and needs a second look.

रसास्वादसुहितचातकपोतसावज्ञनिष्ठ्यूतचञ्चूपुटनिपतदितरमेघशीकरम्,
गोविन्दचरणारविन्दसन्दर्शनायातविबुधसंसद्विमानहंसविविच्यमानसर्वतः
पतदापगासहस्रनीरकृताहारलब्धसमिन्धनबलवदबिन्धनानलं सायम्प्रातिकोल्लासपल्लवितकल्लोलजालवेल्लितवेलागिरिशिखरसञ्चारलब्धदुग्धाभिषेकमुहूर्त- विमलीकृतवन्यद्विपतया परिचिन्वन्तमिव चिरादैरावतसर्गचातुरीम्, क्षीरैकनिधानतया पर्वकालावगाहनप्रसक्तपरमर्षिजनप्रस्तुताघमर्षणसूक्तगोचरक्षीरपदोहानूहविचारकोलाहलाभि- भूतवीचीघोषम्,
 
[commentary]
 
आस्वादेन पानेन । 'मेघपुष्पं घनरसम्' इत्यमरः । सुहितैः तृप्तैः चातकानां पोतैः शिशुभिः । 'पोतH पाकोऽर्भको डिम्भः' इत्यमरः । सावज्ञं अवहेलनसहितं यथा तथा निष्ठ्यूताः खाट्कृत्य वान्ताः चञ्चूपुटेषु त्रोटीप्रदेशेषु निपतन्तः पतनं कुर्वन्तः इतरेषां जलमेघरसानां शीकराः कणाः यस्मिन् सः 'शीकरोऽम्बुकणः स्मृतः इत्यमरः । गोविन्दस्य चरणारविन्दयोः सन्दर्शनार्थमायातानामागतानां विबुधानां, संसदस्सभायाः विमानानां ये हंसाः पक्षिविशेषाः तैर्विविच्यमानैः विभाज्यमानैः सर्वतः पततां आगच्छताम् आपगासहस्राणां, नीरैः, लब्धं प्राप्तं समिन्धनं सन्दीप्तिर्यस्य स तथाभूतः । बलवान् समर्थः प्रवृद्ध इति यावत्। 'बलवान् मांसलोंऽसलः' इत्यमरः । अबिन्धनानलः बडबानलः यस्मिन्तथाभूतं सायम्प्रातर्भवस्सायम्प्रातिकः । तथाविधेनोल्लासेन विकासेन पल्लवितानां
सञ्जातपल्लवानां कल्लोलानां तरङ्गाणां जालेन समूहेन वेल्लिताः व्यापृताः कम्पिता इति वाऽर्थः । 'वेल्लितप्रेङ्खिताधूतचलिताकम्पिताधुतम्' इत्यमरः । वेलागिरयः तटपर्वताः तेषां शिखरेषु शृङ्गेषु सञ्चारेण गमनेन लब्धः प्राप्तः यः दुग्धाभिषेकः क्षीरस्नानं तेन मुहूर्तं द्वादशक्षणात्मककालं विमलीकृताः निर्मलीकृताः, वन्याः अरण्यसम्भवाः द्विपाः गजाः यस्मिन् सः तस्य भावस्तत्ता तथा चिरात् चिरकालादारभ्य ऐरावतस्याभ्रमातङ्गस्य सर्गे, चातुरीं नैपुण्यम् परिचिन्वन्तम् अभ्यस्यन्तमिव । मथनावसरे मत्तगजं निर्मातुमिति भावः । क्षीरैकनिधानतया क्षीरमात्राश्रयतया, पर्वकालेषु अमापूर्णिमासङ्क्रान्त्यादिलक्षणेषु अवगाहने शास्त्रोक्तसङ्कल्पादिपूर्वकस्नाने प्रसक्ताः उद्युक्ताः ये परमर्षयो महर्षयः । 'पर्वण्येवाम्बुधौ स्नायात्' इति शास्त्रादिति भावः । तैः प्रस्तुतः आवश्यकत्वेनोपक्रान्तः अघमर्षणसूक्तं तत्कालपठनमात्रेण पापनाशकं 'हिरण्यशृङ्गम्