This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः
 
रसास्वाद सुहितचातक पोतसावज्ञनिष्ठ्यूतचञ्चू पुटनिपतदितरमेघशीकरम्,

गोविन्दचरणारविन्दसन्दर्शनायातविबुधसंसद्विमानहंसविविच्यमानसर्वतः
 

पतदापगासहस्रनीरकृताहारलब्धसमिन्धनबलवदबिन्धनानलं सायम्प्रा-
तिकोल्लासपल्लवितकल्लोलजालवेल्लितवेलागिरिशिखरसञ्चारलब्धदुग्धाभि
षेकमुहूर्त- विमलीकृतवन्यद्विपतया परिचिन्त्रन्तमिव चिरादैरावतसर्ग-
चातुरीम्, क्षीरैकनिधानतया पर्वकालावगाहनप्रसक्तपरमर्षिजनप्र-
स्तुताघमर्षणसूक्तगोचरक्षीरपदोहा नूह विचारकोलाहलाभि- भूतवीचीघोषम्
 
१४७
 
"
 
-
 
"
 
29
 

 
,
 
[commentary]
 
आस्वादेन पानेन । 'मेघपुष्पं घनरसम्' इत्यमरः । सुहितैः तृप्तैः चातकानां
पोतैः शिशुभिः । 'पोत:H पाकोऽर्को डिम्भः' इत्यमरः । सावज्ञं अवहेलन-
सहितं यथा तथा निष्ठचूठ्यूताः खाट्कृत्य वान्ताः चञ्चूपुटेषु त्रोटीप्रदेशेषु निपतन्तः
पतन
पतनं कुर्वन्तः इतरेषां जलमेघरसानां शीकराः कणाः यस्मिन् स:सः 'शीकरो-
ऽम्बुकण:णः स्मृतः इत्यमरः । गोविन्दस्य चरणारविन्दयोः सन्दर्शनार्थमाया-
तानामागतानां विबुधानां, संसदस्सभायाः विमानानां ये हंसा:साः पक्षिविशेषाः
तैर्विविच्यमानैः विभाज्यमानैः सर्वतः पततां आगच्छताम् आपगासहस्राणां, नीरैः,
लब्धं प्राप्तं समिन्धनं सन्दीप्तिर्यस्य स तथाभूतः । बलवान् समर्थ:थः प्रवृद्ध इति
यावत्। ' बलवान् मांसलोंऽसल: लः' इत्यमरः । अबिन्धनानल:लः बडबानल:लः यस्मिन्
तथाभूतं सायम्प्रातर्भवस्सायम्नाप्रातिकः । तथाविधेनोल्लासेन विकासेन पल्लवितानां

सञ्जातपल्लवानां कल्लोलानां तरङ्गाणां जालेन समूहेन वेल्लिता:ताः व्याप्टपृताः कम्पिता
इति वाऽर्थः । 'वेल्लितप्रेङ्खिताधूतच लिताकम्पिताधुतम्' इत्यमरः । वेलागिरयः
तटपर्वताः तेषां शिखरेषु शृङ्गेषु सञ्चारेण गमनेन लब्धः प्राप्तः यः दुग्धाभिषेकः
क्षीरस्त्रानानं तेन मुहूर्तं द्वादशक्षणात्मककालं विमलीकृताः निर्मलीकृताः,
वन्याः अरण्यसम्भवाः द्विपाः गजा:जाः यस्मिन् सः तस्य भावस्तत्ता
तथा चिरात् चिरकालादारभ्य ऐरावतस्याश्भ्रमातङ्गस्य सर्गे, चातुरीं
नैपुण्यम् परिचिन्वन्तम् अभ्यस्यन्तमिव । मथनावसरे मत्तगजं निर्मातुमिति
भावः । क्षीरैकनिधानतया क्षीरमातात्राश्रयतया, पर्वकालेषु अमापूर्णिमासङ्क्रान्त्या-
दिलक्षणेषु अवगाहने शास्त्रोक्तसङ्कल्पादिपूर्वकस्तानाने प्रसक्ताः उद्युक्ताः ये परमर्षयो
महर्षयः । 'पर्वण्येवाम्बुधौ स्नायात्' इति शास्त्रादिति भावः । तैः प्रस्तुतः आव-
श्यकत्वेनोपक्रान्तः अघमर्षणसूक्तं तत्कालपठनमात्रेण पापनाशकं 'हिरण्यशृङ्गम्