2023-06-05 16:40:04 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः
रसास्वाद सुहितचातक पोतसावज्ञनिष्टयूतचञ्चू पुटनिपतदितरमेघशीकरम्,
गोविन्दचरणारविन्दसन्दर्शनायातविबुधसंसद्विमानहंसविविच्यमानसर्वतः
पतदापगासहस्रनीरकृताहारलब्धसमिन्धनबलवदबिन्धनानलं सायम्प्रा-
तिकोल्लासपल्लवितकल्लोलजालवेल्लितवेलागिरिशिखरसञ्चारलब्धदुग्धाभि
षेकमुहूर्त विमलीकृतवन्यद्विपतया परिचिन्त्रन्तमिव चिरादैरावतसर्ग-
चातुरीम्, क्षीरैकनिधानतया पर्वकालावगाहनप्रसक्तपरमर्षिजनप्र-
स्तुताघमर्षणसूक्तगोचरक्षीरपदोहा नूह विचारकोलाहलाभिभूतवीचीघोषम्
१४७
"
-
"
29
।
आस्वादेन पानेन । 'मेघपुष्पं घनरसम्' इत्यमरः । सुहितैः तृप्तैः चातकानां
पोतैः शिशुभिः । 'पोत: पाकोऽर्मको डिम्भः' इत्यमरः । सावज्ञं अवहेलन-
सहितं यथा तथा निष्ठचूताः खाट्कृत्य वान्ताः चञ्चूपुटेषु त्रोटीप्रदेशेषु निपतन्तः
पतन कुर्वन्तः इतरेषां जलमेघरसानां शीकराः कणाः यस्मिन् स: 'शीकरो-
ऽम्बुकण: स्मृतः इत्यमरः । गोविन्दस्य चरणारविन्दयोः सन्दर्शनार्थमाया-
तानामागतानां विबुधानां संसदस्सभायाः विमानानां ये हंसा: पक्षिविशेषाः
तैर्विविच्यमानैः विभाज्यमानैः सर्वतः पततां आगच्छताम् आपगासहस्राणां, नीरैः,
लब्धं प्राप्तं समिन्धनं सन्दीप्तिर्यस्य स तथाभूतः । बलवान् समर्थ: प्रवृद्ध इति
यावत्। ' बलवान् मांसलोंऽसल: ' इत्यमरः । अबिन्धनानल: बडबानल: यस्मिन्
तथाभूतं सायम्प्रातर्भवस्सायम्नातिकः । तथाविधेनोल्लासेन विकासेन पल्लवितानां
सञ्जातपल्लवानां कल्लोलानां तरङ्गाणां जालेन समूहेन वेल्लिता: व्याप्टताः कम्पिता
इति वाऽर्थः । 'वेल्लितप्रेङ्खिताधूतच लिताकम्पिताधुतम्' इत्यमरः । वेलागिरयः
तटपर्वताः तेषां शिखरेषु शृङ्गेषु सञ्चारेण गमनेन लब्धः प्राप्तः यः दुग्धाभिषेकः
क्षीरस्त्रानं तेन मुहूर्त द्वादशक्षणात्मककालं विमलीकृताः निर्मलीकृताः,
वन्याः अरण्यसम्भवाः द्विपाः गजा: यस्मिन् सः तस्य भावस्तता
तथा चिरात् चिरकालादारभ्य ऐरावतस्याश्रमातङ्गस्य सर्गे, चातुरीं
नैपुण्यम् परिचिन्वन्तम् अभ्यस्यन्तमिव । मथनावसरे मत्तगजं निर्मातुमिति
भावः । क्षीरैकनिधानतया क्षीरमाताश्रयतया पर्वकालेषु अमापूर्णिमासङ्क्रान्त्या-
दिलक्षणेषु अवगाहने शास्त्रोक्तसङ्कल्पादिपूर्वकस्ताने प्रसक्ताः उद्युक्ताः ये परमर्षयो
महर्षयः । 'पर्वण्येवाम्बुधौ स्नायात्' इति शास्त्रादिति भावः । तैः प्रस्तुतः आव-
श्यकत्वेनोपक्रान्तः अघमर्षणसूक्तं तत्कालपठनमात्रेण पापनाशकं 'हिरण्यशृङ्गम्