2023-07-30 05:10:50 by Bharadwajraki
This page has been fully proofread once and needs a second look.
कल्लोलमण्डलानि, निरिन्धनज्वलदबिन्धनज्वालासम्बन्धान्निष्यन्दमानमिव वीचीभिरभितोऽपि,
सद्यस्समास्वादितशुद्धदुग्धपूरपूरितगर्भनिर्भरविशदनीरदनिकरसञ्छन्नतया सम्पन्नमिव मण्डेन, चिरसम्भृततया सम्भावितपयोविकारपरिजिहीर्षुणा ततस्ततः क्षिप्ताभिरम्बुजसम्भवेन समूलाभिरिवौषधीभिश्शैवालमञ्जरीभिरभिशोभितम्, चिरपरिचितक्षीरमेघ-
[commentary]
निद्राणश्शयितो यः पुराणः पुरातनः । 'निद्राणशयितौ समौ' इत्यमरः । 'पुराणप्रतनप्रत्नपुरातनचिरन्तनाः' इति च । पुरुषः वासुदेवः तस्य निद्रायाः स्वापस्य भङ्गाद्विनाशादपराधम् आगः । यद्वा, पुराणपुरुषनिद्रायाः यः भङ्गः विनाशः तमेवापराधम् । 'स्यान्निद्रा शयनं स्वापः' इत्यमरः । 'भङ्गः खण्डे पराजये' इति रत्नमाला । आशङ्क्य ऊहित्वा अनिवार्याणि मौखर्यस्य शब्दस्य समुल्लासैर्विकासैर्दुर्ललितानि प्रसरणानि येषां तानि तथाविधानि कल्लोलानां मण्डलानि बृन्दानि । 'मण्डलं त्रिषु कोष्ठे स्यादुपसूर्यकदेशयोः । बिम्बे द्वादशराश्योघे निकुरुम्बेऽथ पेशले ॥" इति नानार्थरत्नमाला । विद्रुमकाण्डाः प्रवालदण्डाः 'प्रवाळोऽङ्गारकमणिर्विद्रुमोऽम्बुधिसम्भवः' इति शब्दार्णवे । त एव वेत्रदण्डाः तैः । वेत्रमिति लताविशेषस्य संज्ञेति ज्ञेयम् । सन्त्रासयन्तं भीषयन्तमिव । वीचीभिः तरङ्गैः, निरिन्धनं निर्गतेन्धनं यथा तथा ज्वलन् प्रज्वलन् यः अभितः निष्यन्दमानमिव स्रवणं कुर्वन्तमिव सद्यः तत्काले, समास्वादितस्य शुद्धदुग्धस्य निर्मलक्षीरस्य । 'दुग्धं क्षीरं पयः समम्' इत्यमरः । पूरेण प्रवाहेन, पूरितः भरितः गर्भ उदरदेशः येषां ते । अत एव निर्भरमत्यन्तं, विशदानां धवळनिर्मलानां, नीरदानां मेघानां, निकरेण व्रातेन संछन्नः आच्छादितः आत्मा शरीरं यस्य तस्य भावस्तत्ता तया । मण्डेन दधिभवमस्तुना । 'मण्डं दधिभवं मस्तु' इत्यमरः । सम्पन्नं सहितमिव चिरात् चिरकालात् सम्भृततया सम्पादिततया सम्भावितस्य शङ्कितस्य पयोविकारस्य अम्लीभवनलक्षणस्य, परिजिहीर्षुणा परिहर्तुमिच्छुना अम्बुजसम्भवेन ब्रह्मणा, ततस्ततः तत्र तत्रेत्यर्थः । क्षिप्ताभिर्विन्यस्ताभिः समूलाभिः मूलसहिताभिः ओषधीभिः मूलिकाविशेषैरिव स्थिताभिः शैवालानां मञ्जरीभिः वल्लरीभिः । 'शैवालं शैवलं समे'
इति द्विरूपकोशे । 'वल्लरी मञ्जरी स्त्रियाम्' इत्यमरः । अभिशोभितं परितः प्रकाशितं चिरात्, परिचितेन अभ्यस्तेन क्षीरमेघरसस्य दुग्धस्वरूपघनरसस्य