This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
निरिन्धन
सद्यस्स
 
१४६
 
कल्लोलमण्डलानि,
निरिन्धनज्वलदबिन्धनज्वालासम्बन्धान्निष्यन्दमानमिव वीचीभिरभितोऽपि,
विशदनीरदनिकरसञ्छन्नतया
 
ज्वलदबिन्धनज्वालासम्बन्धान्निष्यन्दमान-

सद्यस्स
मास्वादितशुद्धदुग्धपूरपूरितगर्भनिर्भर -
 
विशदनीरदनिकरसञ्छन्नतया सम्पन्नमिव मण्डेन, चिरसम्भृततया
सम्भावितपयोविकारपरिजिहीर्षुणा ततस्ततः क्षिप्ताभिरम्बुजसम्भवेन समू-
लाभिरिवौषधीभिश्शैवालमञ्जरीभिरभिशोभितम्, चिरपरिचितक्षीरमेघ-
काण्डाः प्रवाळदण्डाः ।
 

 
[commentary]
 
निद्राणश्शयितो यः पुराण:णः पुरातनः । 'निद्राणशयितौ समौ' इत्यमरः ।
'पुराणप्रतन प्रत्न पुरातनचिरन्तनाः' इति च । पुरुष:षः वासुदेवः तस्य निद्रायाः
स्वापस्य भङ्गाद्विनाश/शादपराम् आगः । यद्वा, पुराणपुरुषनिद्रायाः यः भङ्गः
विनाश:शः तमेवापराधम् । 'स्यान्निद्रा शयनं स्वापः' इत्यमरः । 'भङ्गः खण्डे
पराजये' इति रत्नमाला । आशङ्क्य ऊहित्वा अनिवार्याणि मौखर्यस्य
शब्दस्य समुल्ला सैर्विका सैर्दुर्ललितानि प्रसरणानि येषां तानि तथाविधानि कल्लोलानां
मण्डलानि बृन्दानि । 'मण्डलं त्रिषु कोष्ठे स्यादुपसूर्यकदेशयोः । बिम्बे
द्वादशराश्योघे निकुरुम्बेऽथ पेशले ॥" इति नानार्थरत्नमाला । विद्रुम-
काण्डाः प्रवालदण्डाः 'प्रवाळोऽङ्गार कमणि र्विद्रुमोऽम्बुधिसम्भवः' इति
शब्दार्णवे । त एव वेत्रदण्डाः तैः । वेत्रमिति लताविशेषस्य संज्ञेति ज्ञेयम् ।
सन्त्रासयन्तं भीषयन्तमित्र । वीचीभिः तरङ्गैः, निरिन्धनं निर्गतेन्धनं यथा तथा
ज्वलन् प्रज्वलन् य:यः अभितः निष्यन्दमानमिव स्रवणं कुर्वन्तमिव सद्यः तत्काले,
समास्वादितस्य शुद्धदुग्धस्य निर्मलक्षीरस्य । 'दुग्धं क्षीरं पयः समम्' इत्यमरः ।
पूरेण प्रवाहेन, पूरितः भरितः गर्भ उदरदेशः येषां ते । अत एव
निर्भरमत्यन्तं, विशदानां धवळनिर्मलानां, नीरदानां मेघानां, निकरेण व्रातेन
संछन्न:नः आच्छादितः आत्मा शरीरं यस्य तस्य भावस्तत्ता तया । मण्डेन दधिभव-
मस्तुना । 'मण्डं दधिभवं मस्तु' इत्यमरः । सम्पन्नं सहितमिव चिरात् चिरका -
लात् सम्भृततया सम्पादिततया सम्भावितस्य शक्तिङ्कितस्य पयोविकारस्य अम्ली-
भवनलक्षणस्य, परिजिहीर्षुणा परिहर्तुमिच्छुना अम्बुजसम्भवेन ब्रह्मणा, ततस्ततः तत्र
तत्रेत्यर्थः । क्षिप्ताभिर्विन्यस्ताभिः समूलाभिः मूलसहिताभिः ओषषीधीभिः मूलि
काविशेषैरिव स्थिताभिः शैवालानां मञ्जरीभिः वल्लरीभिः । 'शैवालं शैवलं समे'

इति द्विरूपकोशे । 'वल्लरी मञ्जरी स्त्रियाम्' इत्यमरः । अभिशोभितं परितः
प्रकाशितं चिरात्, परिचितेन अभ्यस्तेन क्षीरमेघरसस्य दुग्धस्वरूपघनरसस्य
 
"