This page has been fully proofread twice.

अवतरन्तश्च ते सत्यलोकादनेकसहस्रयोजनमपि पन्थानमतिलङ्घितं [‌^१]गणयन्तो गव्यूतिमात्रमिव, गुणयन्तो भाषितानि चतुर्मुखस्य, aगुरुणाकृष्यमाणतयेव झटित्युपनिपत्य विशश्रमुरविश्रान्तपरिभ्रमदब्भ्रमारुतसम्पातविनीतपथिकव्यथे जलदपथे ।
 
अद्राक्षुरपि तत्र ते निद्राणपुराणपुरुषनिद्राभङ्गापराधमाशङ्क्य सन्ताडयन्तमिव विद्रुमकाण्डवेत्रदण्डैरनिवार्यमौखर्यसमुल्लासदुर्ललितानि
 
[commentary]
 
श्रमापनोदनाय क्वचिद्देशे ऊषुरित्याह ॥ अवेति ॥ सत्यलोकात् सत्यलोकं विहायेत्यर्थः । ल्यब्लोपे पञ्चमी । अवतरन्तः अवरोहणं कुर्वन्तः ते देवाः । अनेकसहस्राणि योजनानि यस्य तं तथाभूतमपि । क्रोशद्वयस्य गव्यूतिरिति संज्ञा, क्रोशचतुष्टयस्य गन्यूतिद्वयस्य च योजनमिति संज्ञा । "मुहूर्तद्वयगन्तव्यमार्गस्स्यात् क्रोशसंज्ञकः । क्रोशद्वयं तु गव्यूतिस्तद्द्वयं योजनं स्मृतम् ॥"
इत्यभिधानात् । अतिलङ्घितम् अतिक्रान्तं पन्थानं गव्यूतिः क्रोशद्वयं प्रमाणं यस्य तद्गव्यूतिमात्रम् । 'प्रमाणे द्वयसज्दघ्नञ्‌मात्रचः' (५.२.३७) इति मात्रच्प्रत्ययः । 'गव्यूतिः स्त्री क्रोशयुगम्' इत्यमरः । किञ्च, 'यवोदरैरङ्गुळमष्टसङ्ख्यैर्हस्तोऽङ्गुळैष्षड्गुणितैश्चतुर्भिः । हस्तैर्चतुर्भिर्भवतीह दण्डः क्रोशस्सहस्रद्वितयेन तेषाम् । स्याद्योजनं क्रोशचतुष्टयेन' इति [‌^२]गणितशास्त्रम् । तदिव गणयन्तः गणनं कुर्वन्तः चतुर्मुखस्य ब्रह्मणः भाषितानि वचांसि गुणयन्तः । स एवमाहैवमाहेति पुनः पुनरावर्तयन्तः । 'गुणस्त्वावृत्तिशब्दादौ ज्येन्द्रियामुख्यतन्तुषु' इत्यमरः । गुरुणा गुरुत्वेनेत्याकर्षणहेतूक्तिः, बृहस्पतिनेति प्रकृतार्थः । आकृष्यमाणतया आकृष्टतयेव झडिति शीघ्रम् उपनिपत्य अवतीर्य अविश्रान्तं विश्रान्तिरहितं यथा तथा परिभ्रमन् सञ्चरणशीलो यः अब्भ्राणां मेघानां सम्बन्धी मारुतः पवनः तस्य सम्पातेन सम्बन्धेन विनीता अपवारिता पथिकानां मार्गस्थानां व्यथा क्लेशः यस्मिन् तथाभूते जलदपथे मेघमार्गे विशश्रमुः विश्रान्तिं चक्रुः । तस्थुरिति यावत् । बहुदूरयायिनः के वा क्वचिन्न विश्राम्यन्तीति भावः । तत्र स्थिता एव क्षीरसमुद्रं ददृशुरित्याह ॥ अद्राक्षुरिति ॥ तत्र जलधरमार्गे ते देवाः
 
[‌^१] गणनम्, गुणनम्, -- इति गणितशास्त्रपारिभाषिकपदप्रयोगात् गणितशास्त्रं प्रमाणयति व्याख्याता ॥
 
a. "गुरुणा" -- इत्यत्र श्लेषादर्थद्वयं दर्शयति, बृहस्पतिना गुरुत्वेनेति ॥