This page has not been fully proofread.

द्वितीयाश्वासः
 
१४५
 
अवतरन्तश्च ते सत्यलोकादनेकसहस्रयोजनमपि पन्थानमति-
लङ्घितं 'गणयन्तो गव्यूतिमात्रमिव, गुणयन्तो भाषितानि चतुर्मुखस्य,
© गुरुणाकृष्य माणतयेव झटित्युपनिपत्य विशश्रमुरविश्रान्त परिभ्रमदभ्रमा-
रुतसम्पातविनीतपथिकव्यथे जलदपथे ।
 
अद्राक्षुरपि तत्र ते निद्राणपुराणपुरुषनिद्राभङ्गापराधमाशङ्कथ
सन्ताडयन्तमिव विद्रुमकाण्डवेत्रदण्डैरनिवार्यमौखर्यसमुल्लासदुर्ललितानि
 
श्रमापनोदनाय कचिद्देशे ऊषुरित्याह ॥ अवेति ॥ सत्यलोकात् सत्यलोकं
विहायेत्यर्थः । ल्यब्लोपे पञ्चमी । अवतरन्तः अवरोहणं कुर्वन्तः ते देवाः ।
अनेकसहस्राणि योजनानि यस्य तं तथाभूतमपि । क्रोशद्वयस्य गव्यूतिरिति
संज्ञा, क्रोशचतुष्टयस्य गन्यूतिद्वयस्य च योजनमिति संज्ञा । 'मुहूर्तद्वयगन्त-
व्यमार्गस्स्यात् क्रोशसंज्ञक: । क्रोशद्वयं तु गव्यूतिस्तद्वयं योजनं स्मृतम् ॥ "
इत्यभिधानात् । अतिलङ्घितम् अतिक्रान्तं पन्थानं गव्यूति: क्रोशद्वयं प्रमाणं यस्य
तद्गव्यूतिमात्रम् । 'प्रमाणे द्वयसज्दनञ्‌मात्रच: ' ( 5-2-37 ) इति मात्रच प्रत्ययः ।
'गव्यूतिः स्त्री क्रोशयुगम्' इत्यमरः । किञ्च, 'यवोदरैरङ्गुळमष्टसङ्ख्यैर्हस्तो-
ऽङ्गुळैषड्गुणितैश्चतुर्भि: । हस्तैर्चतुर्भिर्भवतीह दण्ड : क्रोशस्सहस्र द्वितयेन तेषाम् ।
स्याद्योजनं क्रोशचतुष्टयेन' इति 'गणितशास्त्रम् । तदिव गणयन्तः गणनं कुर्वन्तः
चतुर्मुखस्य ब्रह्मण: भाषितानि वचांसि गुणयन्तः । स एवमाहेवमाहेति पुनः
पुनरावर्तयन्तः । 'गुणस्त्वा वृत्तिशब्दादौ ज्येन्द्रियामुख्यतन्तुषु' इत्यमरः ।
गुरुणा गुरुत्वेनेत्याकर्षणहेतूक्तिः, बृहस्पतिनेति प्रकृतार्थ: । आकृष्यमाणतया
आकृष्टतयेव झडिति शीघ्रम् उपनिपत्य अवतीर्य अविश्रान्तं विश्रान्तिरहितं यथा
तथा परिभ्रमन् सञ्चरणशीलो य: अब्भ्राणां मेघानां सम्बन्धी मारुतः पवनः तस्य
सम्पातेन सम्बन्धेन विनीता अपवारिता पथिकानां मार्गस्थानां व्यथा क्लेश:
यस्मिन् तथाभूते जलदपथे मेघमार्गे विशश्रमुः विश्रान्ति चक्रुः । तस्थुरिति
यावत् । बहुदूरयायिनः के वा क्वचिन्न विश्राम्यन्तीति भावः । तत्र स्थिता
एव क्षीरसमुद्रं दहशुरित्याह ॥ अद्राक्षुरिति ॥ तत्र जलघरमार्गे ते देवाः
 
1. गणनम्, गुणनम्, – इति गणितशास्त्रपारिभाषिकपदप्रयोगात् गणित-
शास्त्र प्रमाणयति व्याख्याता ॥
 
"गुरुणा " - इत्यत्र श्लेषादर्थद्वयं दर्शयति, बृहस्पतिना गुरुत्वेनेति ॥
 
N - 19
 
a.