This page has been fully proofread once and needs a second look.

१४४
 
नीलकण्ठविजये सव्याख्याने
 
अखिलजनुष्मदाशयगुहाशयमप्युदधौ

शयितमिमे समेतुमुदयुञ्जत शार्ङ्गधरम् ॥ २१ ॥
 

 
किञ्च ।
 

 
पथि ध्वजं यं गरुडध्वजस्य
 

प्रस्थाय यान्तो ददृशुदिंर्दिगीशाः ।
 

तमेव सद्यस्तदनुग्रहस्य
 

भविष्यतोऽपि ध्वजमग्रहीषुः ॥ २२ ॥
 

 
[commentary]
 
कृत:तः सम्पादितः अभ्युदयः मन:नःपरितोषो येषां ते तथाभूतास्सन्तः कथमपि
भयं भीतिं परिहृत्य विसृज्य । उत्तमसन्निधिं प्रति गन्तुं गुरुसहाये सति
कस्य वा जनस्य भीतिस्स्यादिति भावः । अखिलानां जनुष्मतां प्राणिनां
आशयः बुद्धिः स एव गुहा दरी तस्यां शेत इति शयः तं साक्षित्वेन

स्थितमपीत्यर्थः । ज्ञानदृष्ट्येति भावः । 'अन्तः स्थमात्मानमजं न दृष्ट्वा
भ्रमन्ति मूढा' इति स्मृतेः । उदधौ क्षीरार्णवे शयितं शयनकर्तारं शार्ङ्गधरं
शार्ङ्गधन्वानं वासुदेवं समेतुं गन्तुं, स्वावस्था विज्ञापनार्थमिति शेषः ।
उदयुञ्जत उद्योगं चक्रुः । विज्ञापनामात्रादेव सर्वदुः खनिवारके वासुदेवे

जाग्रति सति के वा स्वीयदुःखानि न विज्ञापयन्तीति भावः । श्वेतद्वीपं प्रति
प्रस्थिताः देवाः तत्कालसञ्जातं गरुडदर्शनं शुभोदर्कं बुबुघिधिर इत्याह ॥
पथीति । किञ्च प्रस्थाय प्रस्थानं कृत्वा, यान्तः गच्छन्तः दिशामीशाः पतयः
इन्द्रादयः, पथि मार्गे गरुडध्वजस्य तार्क्ष्यकेतोः नारायणस्य ध्वजं केतुं

गरुत्मन्तमिति भावः । 'पाळि:ळिः केतुर्ध्वजो लिङ्गम्' इत्यमरः । सद्यः, ददृशुः
दृष्टवन्त इति यत् । होरामुहूर्तादिकालविशेषस्वरूपविज्ञातरि गुरौ सहाये
अनुगते कस्य वा सुशकुनं न भवेदिति भावः । तदेव ध्वजगरुडदर्शन मेव
सद्यः भविष्यतः भाविनस्तदनुग्रहस्य नारायणप्रसादस्य ध्वजं निमित्तमिति ।
'ध्वजो लिङ्गं निमित्तं व्यञ्जनं पदम्' इत्यमरः । अग्रहीषुः विविदुः । 'प्रयाणे
प्रथमं वामे गरुडो यदि दृश्यते । तेषां कार्यं करगतमिति नास्त्यत्र संशयः ।'
इति भावः । सत्यलोकं परित्यज्यावरोहन्तः परस्परं भाषमाणा एव बहुदूरमागत्य