2023-06-05 16:40:04 by ambuda-bot
This page has not been fully proofread.
१४४
नीलकण्ठविजये सव्याख्याने
अखिलजनुष्मदाशयगुहाशयमप्युदधौ
शयितमिमे समेतुमुदयुञ्जत शार्ङ्गधरम् ॥ २१ ॥
किञ्च ।
पथि ध्वजं यं गरुडध्वजस्य
प्रस्थाय यान्तो ददृशुदिंगीशाः ।
तमेव सद्यस्तदनुग्रहस्य
भविष्यतोऽपि ध्वजमग्रहीषुः ॥ २२ ॥
कृत: सम्पादितः अभ्युदयः मन:परितोषो येषां ते तथाभूतास्सन्तः कथमपि
भयं भीतिं परिहृत्य विसृज्य । उत्तमसन्निधिं प्रति गन्तुं गुरुसहाये सति
कस्य वा जनस्य भीतिरस्यादिति भावः । अखिलानां जनुष्मतां प्राणिनां
आशय बुद्धिः स एव गुहा दरी तस्यां शेत इति शयः तं साक्षित्वेन
स्थितमपीत्यर्थः । ज्ञानदृष्टयेति भावः । 'अन्तः स्थमात्मानमजं न दृष्ट्वा
भ्रमन्ति मूढा' इति स्मृतेः । उदधौ क्षीरार्णवे शयितं शयनकर्तारं शार्ङ्गधरं
शार्ङ्गधन्वानं वासुदेवं समेतुं गन्तुं, स्वावस्था विज्ञापनार्थमिति शेषः ।
उदयुञ्जत उद्योगं चक्रुः । विज्ञापनामात्रादेव सर्वदुः खनिवारके वासुदेवे
जाग्रति सति के वा स्वीयदुःखानि न विज्ञापयन्तीति भावः । श्वेतद्वीपं प्रति
प्रस्थिताः देवाः तत्कालसञ्जातं गरुडदर्शनं शुभोदकं बुबुघिर इत्याह ॥
पथीति । किञ्च प्रस्थाय प्रस्थानं कृत्वा, यान्तः गच्छन्तः दिशामीशाः पतयः
इन्द्रादयः, पथि मार्गे गरुडध्वजस्य तार्क्ष्यकेतोः नारायणस्य ध्वजं केतुं
गरुत्मन्तमिति भावः । 'पाळि: केतुर्ध्वजो लिङ्गम्' इत्यमरः । सद्यः, ददृशुः
दृष्टवन्त इति यत् । होरामुहूर्तादिकालविशेषस्वरूपविज्ञातरि गुरौ सहाये
अनुगते कस्य वा सुशकुनं न भवेदिति भावः । तदेव ध्वजगरुडदर्शन मेव
सद्यः भविष्यतः भाविनस्तदनुग्रहस्य नारायणप्रसादस्य ध्वजं निमित्तमिति ।
'ध्वजो लिङ्गं निमित्तं व्यञ्जनं पदम्' इत्यमरः । अग्रहीषुः विविदुः । 'प्रयाणे
प्रथमं वामे गरुडो यदि दृश्यते । तेषां कार्य करगतमिति नास्त्यत्र संशयः ।'
इति भावः । सत्यलोकं परित्यज्यावरोहन्तः परस्परं भाषमाणा एव बहुदूरमागत्य