This page has been fully proofread twice.

तदागच्छत क्षीरसागरं, दर्शयिष्यामो भगवन्तम्' इति वदन्नासनादुत्थायान्तर्दधे भगवानब्जसम्भवः ।
 
अथ कथमप्यमर्त्यपतयः परिहृत्य भयं
गुरुकरुणाविशेषपरिणामकृताभ्युदयाः ।
 
[commentary]
 
या तु भोगे भवान्थभूत् ॥' इत्यादीनि[^१] वचनानि शिवरहस्य-मार्कण्डेयपुराण-रुद्रयामळादौ प्रसिद्धानीत्यवगन्तव्यम् । मघवता देवेन्द्रेण जगतां मातरि जनन्यां एवं यदपचरितं एवं यदागः कृतं तदागः स देवः जगतां लोकानां माता परिच्छेत्तैव विष्णुरेवेत्यर्थः । तदुक्तम् -- 'त्रिविक्रमावतारे तु भगवान्गरुडध्वजः । त्रैलोक्यं विममौ पद्भ्यामिति प्राहुः पुराविदः ॥' इति । क्षपयितुं
निवारयितुं प्रभवति समर्थो भवति । एवं च नारायणस्य नारायण्यभेदात् नारायणानुग्रहे सम्पादिते नारायण्यनुग्रहस्सम्पादित एवेति, तेन तद्दुरितं निश्शेषं सकलमपि विनश्यतीति [^२]भावः । वक्तव्यमुक्त्वा विधिरन्तर्दध इत्याह ॥ तदिति ॥ तत्तस्मात् क्षीरसागरं क्षीरसमुद्रं प्रति आगच्छत आगमनं कुरुत । तत्र क्षीरार्णवे भगवन्तं नारायणं प्रदर्शयिष्यामः दर्शनं कारयिष्याम इति वदन्कथयन् भगवानब्जसम्भवः ब्रह्मा आसनात् । ल्यब्लोपे कर्मणि पञ्चमी । आसनं विहायेत्यर्थः । उत्थाय अन्तर्दधे अन्तर्धानमकरोत् । आर्तदीनशरणागतपोषणप्रवृत्तिः केषां महतां झडिति न स्यादिति भावः । गुरुसहाया देवा उदधिशायिनं वासुदेवं प्रति दर्शनार्थं गन्तुमुद्योगं कृतवन्त इत्याह ॥ अथेति ॥ अथ ब्रह्मतिरोधानानन्तरं अमर्त्यपतयः देवश्रेष्ठाः इमे इन्द्रादयः गुरोः बृहस्पतेः सम्बन्धिनी
या करुणा कृपा तस्याः विशेषस्य अतिशयस्य यः परिणामः परिपाकः तेन
 
[^१] "शिवशक्त्यैक्यरूपं ब्रह्म" -- तदेवार्धनारीश्वररूपेण द्योत्यते ॥ "शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते, स आत्मा, स विज्ञेयः" इति माण्डूक्यश्रुत्या निर्गुणं तुरीयं ब्रह्म शिवः ॥ मायासंवलितं सगुणं ब्रह्म अर्धनारीश्वरात्मकं शिवशक्तिरूपम् । शक्तिः स्त्रीरूपा नारायणी पार्वती गौरीत्युच्यते । पुंरूपा नारायणः इत्युच्यते ॥ इत्येतत् सर्वं शिवरहस्यादिग्रन्थजातप्रसिद्धं श्रीमदप्पय्यदीक्षितेन्द्रैः रत्नत्रयपरीक्षायामानन्दलहर्यां च सम्यक् विवृतम् ॥
 
[^१] जगन्माता नारायणी, जगन्माता नारायणः, तस्यां कृतमागः स एव क्षपयितुं प्रभवति, अम्बरीषोपाख्यान इवेति कविवचोऽपि नारायणीनारायणयोः शिवशक्तिरूपता स्त्रीत्वपुंस्त्वमात्रभिन्नां दर्शयति ॥