This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः
 
१४३
 
तदागच्छत क्षीरसागरं, दर्शयिष्यामो भगवन्तम्' इति वदना-
न्नासनादुत्थायान्तर्दघेधे भगवानब्जसम्भवः ।
 

 
अथ कथमप्यमर्त्यपतयः परिहृत्य भयं

गुरुकरुणाविशेषपरिणामकृताभ्युदयाः ।
 
-
 

 
[commentary]
 
या तु भोगे भवान्थभूत् ॥' इत्यादीनि[^१] वचनानि शिवरहस्य-मार्कण्डेयपुराण-
रुद्रयामळादौ प्रसिद्धानीत्यवगन्तव्यम् । मघवता देवेन्द्रेण जगतां मातरि
जनन्यां एवं यदपचरितं एवं यदागः कृतं तदागः स देव:वः जगतां लोकानां
माता परिच्छेत्तैव विष्णुरेवेत्यर्थः । तदुक्तम् -- 'त्रिविक्रमावतारे तु भगवान्
गरुडध्वजः । त्रैलोक्यं विममौ पद्भ्यामिति प्राहुः पुराविदः ॥' इति । क्षपयितुं

निवारयितुं प्रभवति समर्थो भवति । एवं च नारायणस्य नारायण्यभेदात्
नारायणानुग्रहे सम्पादिते नारायण्यनुग्रहस्सम्पादित एवेति, तेन तद्दुरितं निश्शेषं
सकलमपि विनश्यतीति [^२]भावः । वक्तव्यमुक्त्वा विघिरन्तर्दघ
 
धिरन्तर्दध इत्याह
 
॥ तदिति ॥ तत्तस्मात् क्षीरसागरं क्षीरसमुद्रं प्रति आगच्छत आगमनं कुरुत ।
तत्र क्षीरार्णवे भगवन्तं नारायणं प्रदर्शयिष्यामः दर्शनं कारयिष्याम इति वदन्
कथयन् भगवानब्जसम्भवः ब्रह्मा आसनात् । व्यव्ल्यब्लोपे कर्मणि पञ्चमी । आसनं
विहायेत्यर्थः । उत्थाय अन्तर्दधे अन्तर्धानमकरोत् । आर्तदीनशरणागतपोषण-
प्रवृत्तिः केषां महतां झडिति न स्यादिति भावः । गुरुसहाया देवा उदधिशायि
नं वासुदेवं प्रति दर्शनार्थं गन्तुमुद्योगं कृतवन्त इत्याह ॥ अथेति ॥ अथ ब्रह्मति-
रोधानानन्तरं अमर्त्यपतयः देवश्रेष्ठाः इमे इन्द्रादयः गुरोः बृहस्पतेः सम्बन्धिनी

या करुणा कृपा तस्याः विशेषस्य अतिशयस्य यः परिणामः परिपाक:कः तेन
1.

 
[^१]
"शिवश तथैक्त्यैक्यरूपं ब्रह्म " -- तदेवार्धनारीश्वररूपेण द्योत्यते ॥
" शान्तं
शिवम द्वैतं चतुर्थं मन्यन्ते, स आत्मा, स विज्ञेयः" इति माण्डूक्यक्षुश्रुत्या निर्गुणं तुरीयं
ब्रह्म शिवः ॥ मायासंवलितं सगुणं ब्रह्म अर्धनारीश्वरात्मकं शिवशक्तिरूपम् । शक्तिः
स्त्रीरूपा नारायणी पार्वती गौरीत्युच्यते । पुंरूपा नारायणः इत्युच्यते ॥ इत्येतत् सर्
वं शिवरहस्यादिप्ग्रन्थजःजातप्रसिद्धं श्रीमदप्पय्यदीक्षितेन्द्रःरैः रत्नत्रय परीक्षायामा-
न्दलहर्यां च सम्यक् विनृवृतम् ॥
 
""
 
2.

 
[^१]
जगन्माता नारायणी, जगन्माता नारायणः, तस्यां कृतमागः स एव
क्षपयितुं प्रभवति, अम्बरीषोपाख्यान इवेति कविवचोऽपि नारायणीनारायणयोः
शिवशक्तिरूपता स्त्रीत्वपुंस्त्व मात्रभिषांन्नां दर्शयति ॥
 
"