This page has not been fully proofread.

द्वितीयाश्वासः
 
१४३
 
तदागच्छत क्षीरसागरं, दर्शयिष्यामो भगवन्तम्' इति वदना-
सनादुत्थायान्तर्दघे भगवानब्जसम्भवः ।
 
अथ कथमप्यमर्त्यपतयः परिहत्य भयं
गुरुकरुणाविशेषपरिणामकृताभ्युदयाः ।
 
-
 
या तु भोगे भवान्थभूत् ॥' इत्यादीनि वचनानि शिवरहस्य-मार्कण्डेयपुराण-
रुद्रयामळादौ प्रसिद्धानीत्यवगन्तव्यम् । मघवता देवेन्द्रेण जगतां मातरि
जनन्यां एवं यदपचरितं एवं यदागः कृतं तदागः स देव: जगतां लोकानां
माता परिच्छेत्तैव विष्णुरेवेत्यर्थः । तदुक्तम् – 'त्रिविक्रमावतारे तु भगवान्
गरुडध्वजः । त्रैलोक्यं विममौ पद्धयामिति प्राहुः पुराविदः ॥' इति । क्षपयितुं
निवारयितुं प्रभवति समर्थो भवति । एवं च नारायणस्य नारायण्यभेदात्
नारायणानुग्रहे सम्पादिते नारायण्यनुग्रहस्सम्पादित एवेति, तेन तद्दुरितं निश्शेषं
सकलमपि विनश्यतीति भावः । वक्तव्यमुक्त्वा विघिरन्तर्दघ
 
इत्याह
 
॥ तदिति ॥ तत्तस्मात् क्षीरसागरं क्षीरसमुद्रं प्रति आगच्छत आगमनं कुरुत ।
तत्र क्षीराणवे भगवन्तं नारायणं प्रदर्शयिष्यामः दर्शनं कारयिष्याम इति वदन्
कथयन् भगवानब्जसम्भवः ब्रह्मा आसनात् । व्यव्लोपे कर्मणि पञ्चमी । आसनं
विहायेत्यर्थः । उत्थाय अन्तर्दधे अन्तर्धानमकरोत् । आर्तदीनशरणागतपोषण-
प्रवृत्तिः केषां महतां झडिति न स्यादिति भावः । गुरुसहाया देवा उदधिशायिन
वासुदेवं प्रति दर्शनार्थं गन्तुमुद्योगं कृतवन्त इत्याह ॥ अथेति ॥ अथ ब्रह्मति-
रोधानानन्तरं अमर्त्यपतयः देवश्रेष्ठाः इमे इन्द्रादयः गुरोः बृहस्पतेः सम्बन्धिनी
या करुणा कृपा तस्याः विशेषस्य अतिशयस्य यः परिणामः परिपाक: तेन
1. "शिवश तथैक्यरूपं ब्रह्म - तदेवार्धनारीश्वररूपेण द्योत्यते ॥
" शान्तं
शिवम द्वैतं चतुर्थमन्यन्ते, स आत्मा, स विज्ञेयः" इति माण्डूक्यक्षुत्या निर्गुणं तुरीयं
ब्रह्म शिवः ॥ मायासंवलितं सगुणं ब्रह्म अर्धनारीश्वरात्मकं शिवशक्तिरूपम् । शक्तिः
स्त्रीरूपा नारायणी पार्वती गौरीत्युच्यते । पुंरूपा नारायणः इत्युच्यते ॥ इत्येतत् सर्व
शिवरहस्यादिप्रन्थजःतप्रसिद्धं श्रीमदप्पय्यदीक्षितेन्द्रः रत्नत्रय परीक्षायामा-
मन्दलहर्यां च सम्यक् विनृतम् ॥
 
""
 
2. जगन्माता नारायणी, जगन्माता नारायणः तस्यां कृतमागः स एव
क्षपयितुं प्रभवति, अम्बरीषोपाख्यान इवेति कविवचोऽपि नारायणीनारायणयोः
शिवशक्तिरूपता स्त्रीत्वपुंस्त्व मात्रभिषां दर्शयति ॥
 
"