2023-09-10 09:47:12 by Bharadwajraki
This page has been fully proofread twice.
नारायणीप्रसादतिरस्कारजोऽयमपराधो नारायणीयप्रसादपुरस्कारेण समाधेय इति । तथाहि -
यदेतद्वामाङ्गं घनजघनकेशस्तनभरं
कदाचित्तच्छम्भोर्भवति कमलाकौस्तुभधरम् ।
जगन्मातर्येवं यदपचरितं तन्मघवता
जगन्माता देवः प्रभवति स एव क्षपयितुम् ॥ २० ॥
[commentary]
इति स्मृतेः । 'नारायणी रमागौर्योः' इति नानार्थरत्नमाला च । तस्याः यः प्रसादः अनुग्रहः पुष्पमाल्यलक्षणः तस्य तिरस्कारः अभजनम् असेवनमिति यावत् । तज्जः तदुत्पन्नः अयमपराधः । 'आगोऽपराधो मन्तुश्च' इत्यमरः । नारायणस्य भगवतोऽयमित्यर्थे 'तस्येदम्' (४.३.१२०) इत्यणं बाधित्वा 'वृद्धाच्छः' (४.२.११४) इति छप्रत्यये नारायणीय इति रूपं भवति । प्रसादः अनुग्रहः नारायणीयश्चासौ प्रसादश्चेति कर्मधारयः । तस्य पुरस्कारः पुरस्कृतिः, अग्रतस्सम्पादनमिति यावत् ।
तेन समाधातुं योग्यः समाधेयः निवारणीय इति समुल्लिखित इति पूर्वेणान्वयः । ननु देवीविषये कृतोऽपचारस्सम्पादितेन वासुदेवानुग्रहेण कथं समाधीयत इति चेदत आह ॥ तथाहीति । घनं च तज्जघनं चेति कर्मधारयः । पीनौ पीवरौ च तौ स्तनौ चेति कर्मधारयः ।धघनजघनं च पीनस्तनौ चेति प्राण्यङ्गत्वाद्द्वन्द्वैकशेषः । पश्चात् घनजघनपीनस्तनस्य भर इति तत्पुरुषः । अनन्तरं घनजघनपीनस्तनभरोऽस्यास्तीत्यर्थे मत्वर्थीय 'अर्शआदिभ्योऽच्' (५.२.१२७) इत्यच्प्रत्ययः । एवं च
घनजघनपीनस्तनभारवदित्यर्थः । घनजघनकेशस्तनभरमिति एकः पाठः । तथाविधं शम्भोः वामाङ्गं पार्वतीस्वरूपं वर्तते यस्मात्कारणात् तदेव वामाङ्गमेव कमलाया लक्ष्म्याः कौस्तुभस्य माणिक्यविशेषस्य धरं धारयितृ विष्णुरूपं भवतीत्यर्थः । उभयोश्शिवशक्तित्वाविशेषात् । अत्रार्थे प्रमाणं तु -- 'एकापि शक्तिः परमेश्वरस्य भिन्ना चतुर्धा विनियोगकाले । भोगे भवानी, समरेषु दुर्गा, कोपे तु काळी, त्ववने तु विष्णुः ॥' इति वचनम् । 'कदाचिल्ललिता देवी रन्तुकामा सरित्तटे । जगद्विमोहयामास वेणुनादविनोदतः ॥" इति श्रीकृष्णस्य देवीरूपत्वे प्रमाणवचनम् । 'कराङ्गुळिनखोत्पन्ननारायणदशाकृतिः' इति दशानामप्यवताराणां देवीनखोत्पन्नत्वे प्रमाणम् । 'सा शक्तिः परमेशानी विष्णुरूपमदीधरत् । या शक्तिः प्रळये काळी
यदेतद्वामाङ्गं घनजघनकेशस्तनभरं
कदाचित्तच्छम्भोर्भवति कमलाकौस्तुभधरम् ।
जगन्मातर्येवं यदपचरितं तन्मघवता
जगन्माता देवः प्रभवति स एव क्षपयितुम् ॥ २० ॥
[commentary]
इति स्मृतेः । 'नारायणी रमागौर्योः' इति नानार्थरत्नमाला च । तस्याः यः प्रसादः अनुग्रहः पुष्पमाल्यलक्षणः तस्य तिरस्कारः अभजनम् असेवनमिति यावत् । तज्जः तदुत्पन्नः अयमपराधः । 'आगोऽपराधो मन्तुश्च' इत्यमरः । नारायणस्य भगवतोऽयमित्यर्थे 'तस्येदम्' (४.३.१२०) इत्यणं बाधित्वा 'वृद्धाच्छः' (४.२.११४) इति छप्रत्यये नारायणीय इति रूपं भवति । प्रसादः अनुग्रहः नारायणीयश्चासौ प्रसादश्चेति कर्मधारयः । तस्य पुरस्कारः पुरस्कृतिः, अग्रतस्सम्पादनमिति यावत् ।
तेन समाधातुं योग्यः समाधेयः निवारणीय इति समुल्लिखित इति पूर्वेणान्वयः । ननु देवीविषये कृतोऽपचारस्सम्पादितेन वासुदेवानुग्रहेण कथं समाधीयत इति चेदत आह ॥ तथाहीति । घनं च तज्जघनं चेति कर्मधारयः । पीनौ पीवरौ च तौ स्तनौ चेति कर्मधारयः ।