2023-06-05 16:40:03 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
नारायणीप्रसादतिरस्कारजोऽयमपराधो नारायणीयप्रसादपुर-
स्कारेण समाधेय इति । तथाहि -
यदेतद्वामाङ्गं घनजघनकेशस्तनभरं
कदाचित्तच्छम्भोर्भवति कमलाकौस्तुभधरम् ।
जगन्मातर्येवं यदपचरितं तन्मघवता
जगन्माता देवः प्रभवति स एव क्षपयितुम् ॥ २० ॥
१४२
।
इति स्मृतेः। 'नारायणी रमागौर्योः' इति नानार्थरत्नमाला च । तस्याः यः
प्रसादः अनुग्रहः पुष्पमाल्यलक्षण: तस्य तिरस्कारः अभजनम् असेवनमिति यावत् ।
तज्जः तदुत्पन्नः अयमपराध: । 'आगोऽपराधो मन्तुश्च' इत्यमरः । नारायणस्य
भगवतोऽयमित्यर्थे 'तस्येदम्' (4-3-120) इत्यणं बाधित्वा 'वृद्धाच्छ:' (4-2-114)
इति छप्रत्यये नारायणीय इति रूपं भवति । प्रसाद अनुग्रह नारायणीयश्चासौ
प्रसादश्चेति कर्मधारयः। तस्य पुरस्कार : पुरस्कृतिः, अग्रतस्सम्पादनमिति यावत्।
तेन समाधातुं योग्यः समाधेय : निवारणीय इति समुल्लिखित इति पूर्वेणान्वयः ।
ननु देवीविषये कृतोऽपचारस्सम्पादितेन वासुदेवानुग्रहेण कथं समाधीयत इति
चेदत आह ॥ तथाहीति । घनं च तज्जघनं चेति कर्मधारयः । पीनौ पीवरौ च
तौ स्तनौ चेति कर्मधारयः । धनजघनं च पीनस्तनौ चेति प्राण्यङ्गत्वाद्वन्द्वैकशेषः ।
पश्चात् घनजघनपीनस्तनस्य भर इति तत्पुरुषः । अनन्तरं घनजघनपीनस्तनभरोऽ-
स्यास्तीत्यर्थे मत्वर्थीय 'अर्शआदिभ्योऽच' (5-2-127) इत्यचप्रत्ययः । एवं च
घनजघनपीनस्तनभार वदित्यर्थ: । घनजघनकेशस्तनभरमिति एकः पाठः । तथाविधं
शम्भोः वामाङ्गं पार्वतीस्वरूपं वर्तते यस्मात्कारणात् तदेव वामाङ्गमेव कमलाया
लक्ष्म्याः कौस्तुभस्य माणिक्यविशेषस्य घरं धारयितृ विष्णुरूपं भवतीत्यर्थः । उभ-
योश्शिवशक्तित्वाविशेषात् । अत्रार्थे प्रमाणं तु – 'एकापि शक्तिः परमेश्वरस्य भिन्ना
चतुर्धा विनियोगकाले । भोगे भवानी, समरेषु दुर्गा, कोपे तु काळी, त्वबने तु
विष्णुः ॥' इति वचनम् । 'कदाचिल्ललिता देवी रन्तुकामा सरित्तटे । जगद्विमो-
हयामास वेणुनादविनोदतः ॥" इति श्रीकृष्णस्य देवीरूपत्वे प्रमाणवचनम् ।
'कराङ्गळिनखोत्पन्ननारायणदशाकृतिः' इति दशानामप्यवताराणां देवीनखोत्पन्नत्वे
प्रमाणम् । 'सा शक्तिः परमेशानी विष्णुरूपमदीधरत् । या शक्तिः प्रळये काळी