2023-09-10 09:35:11 by Bharadwajraki
This page has been fully proofread twice.
वत्सरैर्निखिलजगन्मातुरम्बिकाया निर्माल्यसमुल्लङ्घनप्रसूतमिदं दुरितम् । तदस्मिन् महत्यपराधे यावदक्षपितमेतदेनस्तावदनुस्मरणमपि भवतामपराधो महानिति चकितैरस्माभिरेतावदुदासितम् ।
महदपीदं दुरितं मन्दरपरिसरावासेन परिहृतमेव सवासनं भवताम्, तदपि जगज्जननी चरणापराधसंसर्गादधुनापि शङ्कमानैरस्माभिरन्य एवोपायस्समुल्लिखितो भवदनुग्रहे ।
[commentary]
सर्वलोकानां मातुः जनन्याः अम्बिकायाः कालिकायाः निर्माल्यस्य धृतदत्तस्य पुष्पमाल्यस्य समुल्लङ्घनादतिक्रमणादपचारादिति यावत् । प्रसूतमुत्पन्नं दुरितं पापं परस्सहस्रैः सहस्रात्परे परस्सहस्राः । 'पञ्चमी' (२.३.२८) इति योगविभागात्समासः । 'राजदन्तादिषु परम्' (२.२.३१) इति सहस्रशब्दस्य परनिपातः । 'पारस्करप्रभृतीनि च' (६.१.१५७) इति सहस्रशब्दस्य सुडागमः । एवञ्च सहस्रसङ्ख्यातीतैः वत्सरैरपि इन्द्रेण कथमतिवाहनीयं क्षपणीयं परिहरणीयमिति यावत् । शापमहिममात्रेण सर्वं पापं गतमिति भावः ॥ तदिति ॥ महति अधिके अस्मिन् देवीप्रसादलङ्घनरूपे
अपराधे आगसि सति प्रसक्तमिति शेषः । तदेतदेनः अहः यावत् यदवधि अक्षपितम् अपरिहृतं पापपरिहारो यावन्नाभूदित्यर्थः । तावत् तत्कालावधि भवतां अनुस्मरणं स्मृतिरपि महानपराध: । 'अथापि खलु पापानामलमश्रेय' इति शास्त्रादिति भावः । इति मत्वा चकितैः भीतैः अस्माभिः । 'अस्मदो द्वयोश्च' (१.२.५९) इति बहुवचनम् । इयदेतावद्यथा तथा उदासितम् । 'नपुंसके भावे क्तः
(३.३.११४) । औदासीन्यमाचरितमित्यर्थः ॥ महदिति ॥ महत् दुर्लङ्घं इदं काळिकानिर्माल्योल्लङ्घनरूपं भवतां सवासनं वासनासहितम् । वासना नाम सूक्ष्मरूपेणावस्थानम् । दुरितं पापं, मन्दरस्य गिरेः परिसरेषु पर्यन्तभूमिषु । 'पर्यन्तभूः परिसरः' इत्यमरः । आवासेन स्थित्या परिहृतं परिहापितम् । 'शैवक्षेत्रप्रवेशेन सर्वं पापं विनश्यति' इति शास्त्रादिति भावः ॥ तदपीति ॥ तदपि तथापि जगतां जनन्यां मातरि काळिकायां विषये अपराधस्य आगसः संसर्गात्
संबन्धात्, परम्परया प्राप्तादपीति शेषः । शङ्कमानैः बिभ्यद्भिः अस्माभिरधुना इदानीं भवतामनुग्रहे स्वर्गप्रापणलक्षणे प्रसादे, अन्यः भवद्बुद्धिस्थादतिरिक्तः उपायस्साधनमुल्लिखितः चिन्तित इत्यर्थः । दयाळुः पुमान् अपराधिनमपि पश्चात्तप्तं शरणागतं कथञ्चित् येनकेनचिदुपायेनोद्धरिष्यत्येवेति भावः । समुल्लिखितोपायमेवाह ॥ नारायणीति ॥ नारायणी काळिका देवीत्यर्थः । 'नारायणी भद्रकाळी"'
महदपीदं दुरितं मन्दरपरिसरावासेन परिहृतमेव सवासनं भवताम्, तदपि जगज्जननी चरणापराधसंसर्गादधुनापि शङ्कमानैरस्माभिरन्य एवोपायस्समुल्लिखितो भवदनुग्रहे ।
[commentary]
सर्वलोकानां मातुः जनन्याः अम्बिकायाः कालिकायाः निर्माल्यस्य धृतदत्तस्य पुष्पमाल्यस्य समुल्लङ्घनादतिक्रमणादपचारादिति यावत् । प्रसूतमुत्पन्नं दुरितं पापं परस्सहस्रैः सहस्रात्परे परस्सहस्राः । 'पञ्चमी' (२.३.२८) इति योगविभागात्समासः । 'राजदन्तादिषु परम्' (२.२.३१) इति सहस्रशब्दस्य परनिपातः । 'पारस्करप्रभृतीनि च' (६.१.१५७) इति सहस्रशब्दस्य सुडागमः । एवञ्च सहस्रसङ्ख्यातीतैः वत्सरैरपि इन्द्रेण कथमतिवाहनीयं क्षपणीयं परिहरणीयमिति यावत् । शापमहिममात्रेण सर्वं पापं गतमिति भावः ॥ तदिति ॥ महति अधिके अस्मिन् देवीप्रसादलङ्घनरूपे
अपराधे आगसि सति प्रसक्तमिति शेषः । तदेतदेनः अहः यावत् यदवधि अक्षपितम् अपरिहृतं पापपरिहारो यावन्नाभूदित्यर्थः । तावत् तत्कालावधि भवतां अनुस्मरणं स्मृतिरपि महानपराध: । 'अथापि खलु पापानामलमश्रेय' इति शास्त्रादिति भावः । इति मत्वा चकितैः भीतैः अस्माभिः । 'अस्मदो द्वयोश्च' (१.२.५९) इति बहुवचनम् । इयदेतावद्यथा तथा उदासितम् । 'नपुंसके भावे क्तः
(३.३.११४) । औदासीन्यमाचरितमित्यर्थः ॥ महदिति ॥ महत् दुर्लङ्घं इदं काळिकानिर्माल्योल्लङ्घनरूपं भवतां सवासनं वासनासहितम् । वासना नाम सूक्ष्मरूपेणावस्थानम् । दुरितं पापं, मन्दरस्य गिरेः परिसरेषु पर्यन्तभूमिषु । 'पर्यन्तभूः परिसरः' इत्यमरः । आवासेन स्थित्या परिहृतं परिहापितम् । 'शैवक्षेत्रप्रवेशेन सर्वं पापं विनश्यति' इति शास्त्रादिति भावः ॥ तदपीति ॥ तदपि तथापि जगतां जनन्यां मातरि काळिकायां विषये अपराधस्य आगसः संसर्गात्
संबन्धात्, परम्परया प्राप्तादपीति शेषः । शङ्कमानैः बिभ्यद्भिः अस्माभिरधुना इदानीं भवतामनुग्रहे स्वर्गप्रापणलक्षणे प्रसादे, अन्यः भवद्बुद्धिस्थादतिरिक्तः उपायस्साधनमुल्लिखितः चिन्तित इत्यर्थः । दयाळुः पुमान् अपराधिनमपि पश्चात्तप्तं शरणागतं कथञ्चित् येनकेनचिदुपायेनोद्धरिष्यत्येवेति भावः । समुल्लिखितोपायमेवाह ॥ नारायणीति ॥ नारायणी काळिका देवीत्यर्थः । 'नारायणी भद्रकाळी