This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः
 
१४१
 
वत्सरैर्निखिलजगन्मातुरम्बिकाया निर्माल्यसमुल्लङ्घनप्रसूतमिदं दुरि -
तम् । तदस्मिन् महत्यपराधे यावदक्षपितमेतदेनस्ता वदनुस्मरणमपि
भवतामपराधो महानिति चकितैरस्माभिरेतावदुदासितम् ।
 

 
महदपीदं दुरितं मन्दरपरिसरावासेन परिहृतमेव सवासनं भवताम्,
तदपि जगज्जननी चरणापराधसंसर्गादधुनापि शङ्कमानैरस्माभि-
रन्य एवोपायस्समुल्लिखितो भवदनुग्रहे ।
 

 
[commentary]
 
सर्वलोकानां मातुः जनन्याः अम्बिकायाः कालिकायाः निर्माल्यस्य धृतदत्तस्य
पुष्पमाल्यस्य समुल्लङ्घनादतिक्रमणादपचारादिति यावत् । प्रसूतमुत्पन्नं दुरितं पापं
परस्सहस्रैः सहस्रात्परे परस्सहस्रा:राः । 'पञ्चमी' (2-3-28२.३.२८) इति योगविभागात्समासः ।
'राजदन्तादिषु परम्' (2-2-31 २.२.३१) इति सहस्रशब्दस्य परनिपातः । 'पारस्करप्रभृतीनि च'
(6-1-157६.१.१५७) इति सहस्रशब्दस्य सुडागमः । एवञ्च सहस्रसङ्ख्यातीतैः वत्सरैरपि
इन्द्रेण कथमतिवाहनीयं क्षपणीयं परिहरणीयमिति यावत् । शापमहिममात्रेण सर्
वं पापं गतमिति भावः ॥ तदिति ॥ महति अधिके अस्मिन् देवीप्रसादलङ्घनरूपे

अपराधे आगसि सति प्रसक्तमिति शेषः । तदेतदेन:नः अहः यावत् यदवधि
अक्षपितम् अपरिहृतं पापपरिहारो यावन्नाभूदित्यर्थः । तावत् तत्कालावधि भवतां
अनुस्मरणं स्मृतिरपि महानपराध: । 'अथापि खलु पापानामलमश्रेय' इति शास्त्रा-
दिति भावः । इति मत्वा चकितैः भीतैः अस्माभिः । 'अस्मदो द्वयोश्च' (1-2-59१.२.५९)
इति बहुवचनम् । इयदेतावद्यथा तथा उदासितम् । 'नपुंसके भावे क्तः

( 3-3-114 ३.३.११४) । औदासीन्यमाचरितमित्यर्थः ॥ महदिति ॥ महत् दुर्लकंङ्घं इदं
काळिका निर्माल्योल्लङ्घनरूपं भवतां सवासनं वासना सहितम् । वासना नाम सूक्ष्म-
रूपेणावस्थानम् । दुरितं पापं, मन्दरस्य गिरेः परिसरेषु पर्यन्तभूमिषु । 'पर्यन्तभूः
परिसरः' इत्यमरः । आवासेन स्थित्या परिहृतं परिहापितम् । 'शैवक्षेत्रप्रवेशेन
सर्व
सर्वं पापं विनश्यति' इति शास्त्रादिति भावः ॥ तदपीति ॥ तदपि तथापि
जगतां जनन्यां मातरि काळिकायां विषये अपराधस्य आगस:सः संसर्गात्

संबन्धात्, परम्परया प्राप्तादपीति शेषः । शङ्कमानैः बिभ्यद्भिः अस्माभिरधुना
इदानीं भवतामनुग्रहे स्वर्गप्रापणलक्षणे प्रसादे, अन्यः भवद्बुद्धिस्थादतिरिक्तः
उपायस्साधनमुल्लिखितः चिन्तित इत्यर्थः । दयाळुः पुमान् अपराधिनमपि पश्चात्तप्तं
शरणागतं कथञ्चित् येनकेनचिदुपायेनोद्धरिष्यत्येवेति भावः । समुल्लिखितोपाय-
मेवाह ॥ नारायणीति ॥ नारायणी काळिका देवीत्यर्थ:थः । 'नारायणी भद्रकाळी"