This page has been fully proofread twice.

इमे वयमिदं तत्त्वमित्थं स्थानमियं दशा ।
परं यदत्र कर्तव्यं प्रमाणं तत्र नो भवान् ॥ १९ ॥'
 
इत्यावेद्य विरमत्याङ्गिरसे, विनमत्सु च युगपदमर्त्येषु, प्रसादयन्सर्वानिदमाह पद्मसम्भवः । 'विदितवेदितव्यैर्भवद्भिरित्थं न विप्रतिपत्तव्यं [^१]दुर्वाससि ।
 
यतः परिणाम एष करुणायास्तत एव महेन्द्रमनुजग्राह तनीयसा शापेन, परथा कथमतिवाहनीयमिन्द्रेण परस्सहस्त्रैरपि
 
[commentary]
 
व्यमिति भावः । वक्तव्यमर्थमुपसंहरन्नाह ॥ इमे इति ॥ वयं देवाः इमे परिदृश्यमानाः सन्निधावेव वर्तामह इति भावः । अस्माकमिति शेषः । तत्त्वं स्वरूपमित्यर्थः । 'तत्त्वं विलम्बमाने स्यात् स्वरूपे परमात्मनि' इति नानार्थरत्नमाला । इदं परिदृश्यमानं स्थानं स्वर्गः इत्थं उक्तप्रकारं वर्तत इति भावः । दशा अवस्था, 'दशावस्थाऽनेकविधा' इत्यमरः । अत्र अस्यामवस्थायां परमनन्तरं यत्कर्तव्यं करणीयं तत्र कर्तव्यार्थे नः अस्माकं भवान् प्रमाणं प्रमाता, आप्त इति यावत् । 'प्रमाणं हेतुमर्यादा
शास्त्रेयत्ताप्रमातृषु' इत्यमरः । 'प्रमाणं प्रमितीयत्तामर्यादाशास्त्रहेतुषु । आप्तेऽथ द्रविणं गेहे' इति रत्नमाला । भवन्तमन्तरेदानीमस्माकं हितोपदेष्टा नास्तीति भावः ॥ इतीति ॥ आङ्गिरसे सुराचार्ये इत्युक्तप्रकारं आवेद्य विज्ञाप्य विरमति तूष्णीम्भूते सति अमर्त्येषु देवेषु युगपदेकदा विनमत्सु प्रणामं कुर्वत्सु । पद्मसम्भवः भगवन्नाभिकमलोत्पन्नः ब्रह्मा सर्वान् प्रसादयन् परितोषयन् इदं वक्ष्यमाणं वच
आह वदतीत्यर्थः । 'ब्रुवः पञ्चानामादित आहो ब्रुवः' (३.४.८४3) इति ब्रुवतेराहादेशः । कथनप्रकारमेवाह ॥ विदितेति ॥ विदितः ज्ञातः वेदितव्यः ज्ञेयांशः यैस्तथाविधैः । भवद्भिः युष्माभिः दुर्वाससि । न विप्रतिपत्तव्यं दोषगणनं न कर्तव्यमित्यर्थः । सोपसर्गस्य धातोरनेकार्थत्वात् ॥ यत इति ॥ यतः कारणात् करुणायाः कृपायाः परिणामः परिणतमूर्तिः दुर्वासा इति शेषः । ततः कारणादेव तनीयसा अतिस्वल्पेन शापेन अनिष्टाशंसनेन महेन्द्रं अनुजग्राह अनुग्रहं कृतवान् ॥ परथेति ॥ परथा अन्यथा निखिलजगतां
 
[^१] स्वस्यौदासीन्ये, दुर्वाससः शापद्वारा महानुग्रहकर्तृत्वे च उपपत्तिरनेन प्रदर्शिता ॥