This page has not been fully proofread.

१४०
 
नीलकण्ठ विजये सव्याख्याने
 
इमे क्यमिदं तत्त्वमित्थं स्थानमियं दशा ।
 
परं यदत्र कर्तव्यं प्रमाणं तत्र नो भवान् ॥ १९ ॥
 
इत्यावेद्य विरमत्याङ्गिरसे, विनमत्सु च युगपदमर्त्येषु, प्रसादयन्
सर्वानिदमाह पद्मसम्भवः । 'विदितवेदितव्यैर्भवद्भिरित्थं न विप्रति-
पत्तव्यं दुर्वाससि ।
 
यतः परिणाम एष करुणायास्तत एव महेन्द्रमनुजग्राह
तनीयसा शापेन, परथा कथमतिवाहनीयमिन्द्रेण परस्सहस्त्रैरपि
 
I
 
व्यमिति भावः। वक्तव्यमर्थमुपसंहरन्नाह ॥ इमे इति ॥ वयं देवाः इमे परिदृश्य-
माना: सन्निधावेव वर्तामह इति भावः । अस्माकमिति शेषः । तत्त्वं स्वरूपमित्यर्थः ।
'तत्त्वं विलम्बमाने स्यात् स्वरूपे परमात्मनि' इति नानाथरत्नमाला । इदं परि-
दृश्यमानं स्थानं स्वर्गः इत्थं उक्तप्रकारं वर्तत इति भावः । दशा अवस्था, 'दशाव-
स्थाऽनेकविधा' इत्यमरः । अत्र अस्यामवस्थायां परमनन्तरं यत्कर्तव्यं करणीयं तत्र
कर्तव्यार्थे नः अस्माकं भवान् प्रमाणं प्रमाता, आप्त इति यावत् । 'प्रमाणं हेतुमर्यादा
शास्त्रेयत्ताप्रमातृषु' इत्यमरः । 'प्रमाणं प्रमितीयत्तामर्यादाशास्त्रहेषु । आप्तेऽथ द्रविण
गेहे' इति रत्नमाला । भवन्तमन्तरेदानीमस्माकं हितोपदेष्टा नास्तीति भावः
॥ इतीति ॥ आङ्गिरसे सुराचार्ये इत्युक्तप्रकारं आवेद्य विज्ञाप्य विरमति तूष्णीम्भूते
सति अमर्त्येषु देवेषु युगपदेकदा विनमत्सु प्रणामं कुर्वत्सु । पद्मसम्भवः
भगवन्नाभिकमलोत्पन्नः ब्रह्मा सर्वान् प्रसादयन् परितोषयन् इदं वक्ष्यमाणं वच
आह वदतीत्यर्थ: । 'ब्रुव: पञ्चानामादित आहो ब्रुव:' (3-4-84) इति
ब्रुवतेराहादेशः । कथनप्रकारमेवाह ॥ विदितेति ॥ विदितः ज्ञातः
वेदितव्यः ज्ञेयांशः यैस्तथाविधैः । भवद्भिः युष्माभिः दुर्वाससि । न विप्रतिपत्तव्यं
दोषगणनं न कर्तव्यमित्यर्थः । सोपसर्गस्य धातोरनेकार्थत्वात् ॥ यत इति ॥
यतः कारणात् करुण।या: कृपाया: परिणामः परिणतमूर्तिः दुर्वासा इति
शेषः ।
ततः कारणादेव तनीयसा अतिस्वल्पेन शापेन अनिष्ट शंसनेन महेन्द्रं
अनुजग्राह अनुग्रहं कृतवान् ॥ परथेति ॥ परथा अन्यथा निखिलजगतां
 
1. स्वस्यौदासीन्ये, दुर्वासस: शापद्वारा महानुग्रहकर्तृत्वे च उपपत्तिरनेन
 
प्रदर्शिता ॥