2023-09-10 09:13:34 by Bharadwajraki
This page has been fully proofread twice.
तत्तत्साम्योदयफलपरामप्रमाणीं पुराणीं
मत्वा वाचं विदधति शनैः कर्ममार्गेष्ववज्ञाम् ॥ १७॥
अथवा नैतावदभिधातव्यमस्माभिः ।
अभिदधति ते मूर्धानं द्यामनुश्रवसूक्तयः
सुचिरमसुराश्चैतामित्थं तुदन्ति दुराशयाः ।
निगमशिखराभ्यासव्यासङ्गतो यदि विस्मृतं
तदपि भवता तन्नो दौष्कर्म्यमित्युपरम्यते ॥ १८ ॥
[commentary]
'प्रेक्षोपलब्धिश्चित्संवित्' इत्यमरः । नराः पुरुषाः इत्थम्भूतान् एवंस्थितान् इन्द्रो वैश्वानरः तौ आदी येषां ते तथाभूतान् सुराणां परिबृढान् अधिपान् । 'प्रभुः परिवृढोऽधिपः' इत्यमरः । प्रेक्षमाणाः अवलोकमानास्सन्तः तत्तत् तेषां तेषां साम्यस्य समतायाः उदयः आविर्भाव एव फलं तदेव परं मुख्यं यस्यास्तां तथाविधां पुराणीं अकृतकां वाणीं 'बार्हस्पत्यकामो बृहस्पतिसवेन यजेत वसूनामेव
तावदाधिपत्यं स्वाराज्यं पर्येति' इत्यादिकां वैदिकवाचं अप्रमाणीं अतत्त्वावेदिकां मत्वा शनैः विलम्बेन । 'अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः' इत्यमरः । कर्मणां ज्योतिष्टोमादीनां मार्गेषु पद्धतिषु अवज्ञां अवहेळनं विदधति कुर्वन्ति । के वा अतिदु:दुःखाय प्रयाससाध्यं कर्म कुर्वन्तीति भावः ॥ अथवेति ॥ अथवा तथापीत्यर्थः । अस्माभिः एतावदियद्यथा तथा नाभिधातव्यं न वक्तव्यम् । स्वामिनां निकटे भृत्यैरधिकप्राभवं न कार्यमिति भावः ॥ अभीति ॥ अनुश्रवाणां वेदानां सूक्तयः 'अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ' इत्याद्याः, वेदवाचः । श्रुतिवाक्ये अग्निपदं तदुपलक्षितस्वर्गलोकपरमिति व्याख्यातम् तद्भाष्ये । यां द्यां स्वर्गलोकम् । 'द्योदिवौ द्वे स्त्रियाम्' इत्यमरः । ते मूर्धानां मस्तकम् अभिदधति कथयन्ति एतामेनां दिवं दुराशयाः दुर्बुद्धयः असुराः दानवाः सुचिरं चिरादारभ्य इत्थं उक्तरीत्या तुदन्ति । 'तुद व्यथने' इति धातोर्लट् । पीडयन्तीत्यर्थः । निगमशिखराणां वेदान्तानां
अभ्यासः अविच्छेदपठनपाठनलक्षणो व्यापारविशेषः तस्य व्यासङ्गतः विशेषेण आसक्तेः भवता विस्मृतं यदि विस्मरणं कृतं चेत्तदपि विस्मरणमपि नः अस्माकं दौष्कर्म्यम् । स्वार्थे ष्यञ् । अथवा, दुष्टं कर्म येषां ते दुष्कर्माणः तेषां भावः दौष्कर्म्यमित्यर्थः । इत्येवमुपरम्यते तूष्णीम्भूयते । विदितवेद्यानां निकटे, किं वक्त-
मत्वा वाचं विदधति शनैः कर्ममार्गेष्ववज्ञाम् ॥ १७॥
अथवा नैतावदभिधातव्यमस्माभिः ।
अभिदधति ते मूर्धानं द्यामनुश्रवसूक्तयः
सुचिरमसुराश्चैतामित्थं तुदन्ति दुराशयाः ।
निगमशिखराभ्यासव्यासङ्गतो यदि विस्मृतं
तदपि भवता तन्नो दौष्कर्म्यमित्युपरम्यते ॥ १८ ॥
[commentary]
'प्रेक्षोपलब्धिश्चित्संवित्' इत्यमरः । नराः पुरुषाः इत्थम्भूतान् एवंस्थितान् इन्द्रो वैश्वानरः तौ आदी येषां ते तथाभूतान् सुराणां परिबृढान् अधिपान् । 'प्रभुः परिवृढोऽधिपः' इत्यमरः । प्रेक्षमाणाः अवलोकमानास्सन्तः तत्तत् तेषां तेषां साम्यस्य समतायाः उदयः आविर्भाव एव फलं तदेव परं मुख्यं यस्यास्तां तथाविधां पुराणीं अकृतकां वाणीं 'बार्हस्पत्यकामो बृहस्पतिसवेन यजेत वसूनामेव
तावदाधिपत्यं स्वाराज्यं पर्येति' इत्यादिकां वैदिकवाचं अप्रमाणीं अतत्त्वावेदिकां मत्वा शनैः विलम्बेन । 'अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः' इत्यमरः । कर्मणां ज्योतिष्टोमादीनां मार्गेषु पद्धतिषु अवज्ञां अवहेळनं विदधति कुर्वन्ति । के वा अति