This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः
 
१३९
 
तत्तत्साम्योदयफलपरामप्रमाणीं पुराणीं
 

मत्वा वाचं विदधति शनैः कर्ममार्गेष्ववज्ञाम् ॥ १७॥
 

 
अथवा नैतावदभिधातव्यमस्माभिः ।

 
अभिदधति ते मूर्धानं द्यामनुश्रवसूक्तयः

सुचिरमसुराश्चैतामित्थं तुदन्ति दुराशयाः ।

निगमशिखराभ्यासव्यासङ्गतो यदि विस्मृतं

तदपि भवता तन्नो दौष्कर्म्यमित्युपरम्यते ॥ १८ ॥
 

 
[commentary]
 
'प्रेक्षोपलब्धिश्चित्संवित्' इत्यमरः । नराः पुरुषाः इत्थम्भूतान् एवंस्थितान्
इन्द्रो वैश्वानरः तौ आदी येषां ते तथाभूतान् सुराणां परिबृढान् अघिधिपान् ।
'प्रभुः परिवृढोऽधिपः' इत्यमरः । प्रेक्षमाणाः अवलोकमानास्सन्तः तत्तत् तेषां
तेषां साम्यस्य समताया:याः उदय:यः आविर्भाव एव फलं तदेव परं मुख्यं यस्यास्तां
तथाविधां पुराणीं अकृतकां वाणीं 'बार्हस्पत्यकामो बृहस्पतिसवेन यजेत वसूनामेव

तावदाधिपत्यं स्वाराज्यं पर्येति' इत्यादिकां वैदिकवाचं अप्रमाणीं अतत्त्वावेदिकां
मत्वा शनैः विलम्बेन । 'अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः' इत्यमरः ।
कर्मणां ज्योतिष्टोमादीनां मार्गेषु पद्धतिषु अवज्ञां अवहेळनं विदधति कुर्वन्ति ।
के वा अतिदु:खाय प्रयास साध्यं कर्म कुर्वन्तीति भावः ॥ अथवेति ॥ अथवा
तथापीत्यर्थः । अस्माभिः एतावदियद्यथा तथा नाभिघातत्र्धातव्यं न वक्तव्यम् । स्वामिनां
निकटे भृत्यैरधिकप्राभवं न कार्यमिति भावः ॥ अभीति ॥ अनुश्रवाणां वेदानां
सूक्तयः 'अभिग्निर्मूर्धा चक्षुषी चन्द्रसूर्योयौ' इत्याद्याः, वेदवाचः । श्रुतिवाक्ये अभिग्निपदं
तदुपलक्षित
स्वर्गलोकपर मिति व्याख्यातम् तद्भाष्ये । यां द्यां स्वर्गलोकम् । 'द्योदिवौ
द्वे स्त्रियाम्' इत्यमरः । ते मूर्धानां मस्तकम् अभिदधति कथयन्ति एतामेनां दिवं
दुराशयाः दुर्बुद्धयः असुराः दानवाः सुचिरं चिरादारभ्य इत्थं उक्तरीत्या तुदन्ति ।
'तुद व्यथने' इति धातोर्लट् । पीडयन्तीत्यर्थः । निगमशिखराणां वेदान्तानां

अभ्यासः अविच्छेदपठनपाठनलक्षणो व्यापार विशेष:षः तस्य व्यासङ्गतः विशेषेण
आसक्तेः भवता विस्मृतं यदि विस्मरणं कृतं चेत्तदपि विस्मरणमपि नः अस्माकं
दौष्कर्म्यम् । स्वार्थे ष्यञ् । अथवा, दुष्टं कर्म येषां ते दुष्कर्माणः तेषां भावः
दौष्कर्म्यमित्यर्थः । इत्येवमुपरम्यते तूष्णीम्भूयते । विदितवेद्यानां निकटे, किं वक्त-