2023-06-05 16:40:02 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठ विजये सव्याख्याने
दिवौकसस्सूक्ष्मतरं व्युदपद्यन्त दुर्भगाना मन्नार्थिना मर्थनाभङ्गमन्दाक्ष -
सन्धुक्षितान्तरज्वालाकलापसंभृतेषु
यदियज्जीवितमेतैस्तदायुषा कल्पितेन भवतैव ।
सम्भ्रमेषु मानवानाम् । किं बहुना ।
या त्वियती मांसलता साप्यन्नापायशोफेन ॥ १६ ॥
आस्तामिदम् ।
प्रेक्षावन्तो दिशि दिशि नराः प्रेक्षमाणा धरण्यां
इत्थंभूतान् सुरपरिबृढा निन्द्रवैश्वानरादीन् ।
मानो देवा इत्यभिमानो येषां ते तथाविधाः । 'मानश्चित्तसमुन्नतिः' इत्यमरः ।
दिवौकसः स्वर्गवासिनो देवा: अन्नमर्थितुं शीलं येषां ते अन्नार्थिनः तेषाम् ।
अत एव दुष्टः भगः कामो येषां ते दुर्भगाः । 'भग: श्रीकाममाहात्म्ये '
इत्यमरः । निष्फलकामानामिति यावत् । अत एव अर्थनाया याच्ञायाः भङ्गः
पराजयः, वैफल्यमिति यावत् । 'भङ्गः खण्डे पराजये' इति रत्नमाला । तेन
यन्मन्दाक्ष लज्जा तेन सन्धुक्षितानाम् उद्दीपितानाम् । 'धुक्ष दीपने' इति धातोः
कर्मणि क्तः । आन्तरज्वालानां हार्दशोकाभिज्वालानां कलापेन समूहेन । 'कलापो
भूषणे बर्हे तूणीरे संहतावपि इत्यमरः । सम्भृतेषु संपादितेषु मानवानां सम्प्र-
मेषु अत्यादरेषु भयेषु आवेगेषु वा । 'सम्भ्रमोऽत्यादरे भीतावावेगे च' इति
नानार्थरत्नमाला । सूक्ष्मतरं स्वल्पं व्युदपद्यन्त व्युत्पन्ना बभूवुः । अन्ततः
मानवदुरवस्थामापुरिति भावः ॥ यदिति ॥ एतैः देवैः इयत् एतावत्पर्यन्तं जीवितं
प्राणनमिति यत् । 'जीव प्राणने' इति धातो: नपुंसके भावे क्तः । तज्जीवन
प्राणनमित्यर्थः । भवता कल्पितेन व्यवस्थापितेन आयुषैव जीवितकालेनैव आयुर्व-
-
लेनैव जीवन्तीति भावः । 'आयुर्जीवितकालो ना' इत्यमरः । इयती एतावती या
मांसलता पीवरत्वं, मांसलस्य भावो मांसलता । 'अमांसो दुर्बलश्शातो बलवान्
मांसलोंऽसल : ' इत्यमरः । वर्तते, सापि पीवरतापि अन्नस्यापायेन अभावेन,
जनित: उत्पादितः यश्शोफ: शोफरोगः तेनैव । 'शोभा कान्तावामये तु शोफ:
कुम्भस्तु दानवे' इति हेमचन्द्र परिदृश्यमानं पीवरत्वं शोफजाड्यमेवेत्यर्थः ।
न तु हर्षादिप्रयुक्तोपचय इति भावः ॥ प्रेक्षेति ॥ धरण्यां, दिशि दिशि । वीप्सायां
द्विर्भावः । प्रतिदिशमित्यर्थः । प्रेक्षा बुद्धिः एषामस्तीति प्रेक्षावन्तः बुद्धिशालिनः