This page has been fully proofread twice.

आसाद्य दानवकुलानि दिवौकसो नः
चक्रे पदं कृपणमानवदुर्दशानाम् ॥ १५ ॥
 
अथ यद्भवतैव कल्पितमध्वरहविर्जीवनममर्त्यानामपहृते तस्मिन्नसुरैः, असम्भाविते च यादाकादाचित्के दाने द्विजन्मनाम्, अशिक्षिते च मौमवदन्नसाधनव्यसने, भवत्प्रसादादवधूय सौवर्गराज्यसिसाधयिषाम्, अपहाय दिव्यभोगेषु कौतूहलम्, अन्नायैव स्पृहयमाणा निरन्तरम्,
अनिमिषतया श्रमावर्जितमूर्च्छास्स्वापमप्यलभमानाः, सुलभमाना
 
[commentary]
 
अनेनैव मुनिना निर्वासिता निष्कासिता सुरलोकस्य लक्ष्मीः सम्पत् कर्त्री । 'लक्ष्मीस्सम्पद्रमा शोभा' इति नानार्थरत्नमाला । दानवानां कुलानि सदनानि । 'गेहे देशे जनपदे सजातीयगुणेऽन्वये । कुलम्' इति नानार्थरत्नमाला । आसाद्य प्राप्य, दिवौकसः स्वर्गवासिनः अस्मान्, कृपणाः क्षुद्राः ये मानवाः
मनुष्याः तेषां याः दुर्दशा दुरवस्थाः तासां पदं भाजनं चक्रे कृतवती । गतश्रीणामस्माकं म्लानता कथं न स्यादिति भावः । एतदारभ्य वक्तव्यं मुख्यमंशमाह ॥ अथेति ॥ अथ कार्येनेत्यर्थः । 'मङ्गळानन्तरारम्भप्रश्नकार्त्स्नेष्वथो अथ' इत्यमरः । भवतैव अमर्त्यानां देवानां यत् अध्वरेषु यागेषु
यानि हवींषि तैः जीवनं कल्पितं निर्दिष्टं तस्मिन् हविर्लक्षणजीवने असुरैरपहृते सति बलाद्गृहीते सति यथाकथञ्चित् कृच्छ्रेणापीत्यर्थः । द्विजन्मनां द्विजसम्बन्धिनीत्यर्थः । सम्बन्धसामान्ये षष्ठी । दाने, असम्भाविते अतर्किते सति । भूमौ भवाः भौमाः भूलोकवासिनः तैस्तुल्यं भौमवत् । अन्नस्य साधनं सम्पादनं तस्य व्यसनं उद्योगः तस्मिन् । भवतः, प्रसादादनुग्रहात् अशिक्षिते अनभ्यस्ते सति । स्वर्गस्येदं सौवर्गं स्वर्गसम्बन्धि यद्राज्यं राज्ञः कर्म भावो वा तस्य सिसाधयिषां साधयितुमिच्छाम् अवधूय । दिव्यभोगेषु दिव्यसुखेषु । 'भोगस्सुखेस्त्र्यादिभृतौ' इत्यमरः । कौतूहलं उत्कण्ठाम् aअवधूय विधूय निरन्तरं सर्वदा अन्नायैव स्पृहयमाणाः इच्छमानास्सन्तः । अविद्यमानाः निमिषाः निमेषाः येषां तेषां भावः तया अनिमिषतया श्रमेणायासेन आवर्जिता सम्पादिता या मूर्च्छा
अवस्थाविशेषः येषां ते तथा । स्वापमपि निद्रामपि अलभमानाः सन्तः सुलभो
 
a. 'अपहाय' इति मूलपाठः ।